This page has not been fully proofread.

४२
 
.
 
पूर्ववाक्यार्थे हेतुत्वेनान्वयेऽपि न काव्यलिङ्गमलंकारः । यत्र
हेतुत्वमार्थं तत्र काव्यलिङ्गम् यत्र तच्छाब्दं तत्र न काव्य-
लिङ्गम् ' नागेन्द्रहस्तास्त्वाच कर्कशत्वात्' इत्यादाविति खल्वा-
लंकारिकमर्यादा ॥ २१ ॥
 
शुभ्रांशुवक्त्र शुभगोचरलाभतोषा-
त्संपस्थितो मृगदृशां नयनाम्बुजौघः ।
त्वद्भाः सरित्यथ निपत्य बिभर्ति मोहं
प्रायः फलन्ति विफलन्ति च दैवचिन्ताः ॥
हे शुभ्रांशुवक्त्र चन्द्रमुख, शुभगोचरलाभतोषात् अति-
मनोहरविपयलाभसंतोपात् संप्रस्थितः संभूय युगपत्प्रस्थितः
मृगदृशां नयनाम्बुजौघः नयनान्येवाम्बुजानि तेषामोघः
समूहः । ' ओघो बृन्देऽम्भसां रये' इत्यमरः । अथ प्रस्था-
नानन्तरमेव त्वद्भाःसरिति तव लावण्यकान्तिरेव सरित्
तस्यां निपत्य मोहं वैचित्त्यमनुरागातिशयप्रयुक्तं बिभर्ति
दधाति । शुभ्रांशुर्वक्त्रं यस्येति व्युत्पत्त्या चन्द्ररूपस्य भगव-
न्मुखस्य प्रभानिकरे पतितानामम्बुजानां निर्मालनरूपं वैचित्त्यं
युक्तमिति भावः । इहार्थान्तरमपि प्रतीयते । ग्रहाणां स्थान -
विशेषस्थितिप्रयुक्तमानुकूल्यं प्रातिकूल्यं च गोचर इति दैव-
ज्ञानां व्यवहारः । ते च शुभगोचरेषु भानौ कुलीरालि-
6