This page has not been fully proofread.

४१
 
भावभेदरूपप्रलयाख्यविकाररूपयोरभेदाध्यवसायरूपयातिश-
योक्त्या तयोः संकरः । रसो रागे जले वीर्ये तिक्तादौ
पारदे द्रवे । रेतस्यास्वादने हेनि निर्यासेऽमृतशब्दयोः ॥'
इति शब्दरत्नाकरः ॥ २० ॥
 
.
 
-
 
उच्छेद मेक विषयात्कथयन्ति बोधा.
न्मोहस्य ये खलु कथं न मृषावदास्ते ।
लावण्यमीश तव यन्नयनैर्निपीय
 
तत्रैव मोहमधिकं दधते तरुण्यः ॥ २१ ॥
एकविषयात्स मानविषयाद्वोधाज्ज्ञानात् मोहस्य उच्छेदं वि-
नाशं ये कथयन्ति ते कथं न मृषावदाः ? मृषावदा इत्युचि-
तमेव । हे ईश, यद्यस्मात्कारणात् तरुण्य: तव लावण्यं
पाकचक्यरूपं देहकान्तिविशेषम् ' मुक्ताफलेषु च्छायायास्त-
ग्लत्वमिवान्तरा । प्रतिभाति यदङ्गेषु तल्लावण्यमिहोच्यते ॥'
इत्युक्तलक्षणं नयनैर्निपीय अत्यादरेण दृष्टा तत्रैव तस्मिन्नेव
लावण्ये अधिकं मोहं कारणे कार्योपचारान्मोहहेतुमनुरागं
ते । अत्रापि मोहयोरभेदाध्यवसायरूपातिशयोक्तिः । मृ-
भाषदा इत्यत्र प्रपञ्चमिथ्यात्ववादस्यानृतवादत्वाध्यवसायरूपा-
तिशयोक्तिः । निपीयेत्यत्र वीक्षणे तृष्णातिशयकृतपानत्वाध्य-
गायकृतातिशयोक्तिः । एतेषां संकरः । उत्तरवाक्यार्थस्य