This page has been fully proofread once and needs a second look.

मोहं जगञ्जत्रयभुवामपनेतुमेत

दादाय रूपमखिलेश्वर देहभाजाम् ।

निःसीमकान्तिरसनीरधिनामुनैव

मोहं विवर्धयसि मुग्धविलोचनानाम् ॥
 

 
हे अखिलेश्वर सर्वेषामपि देवमनुष्यादीनां स्वामिन् ।

स्वामी खलु स्वभूतानामनिष्टनिवारणार्थं प्रवर्तते यथा गोपो

गवाम् । अतः स्वामी त्वं जगत्त्रयभुवां लोकत्रयसंभूतानां

देहभाजां मोहं संसारकारणमज्ञानमपनेतुम् एतद्रूपमिमं शुभ-

विग्रहमादायाङ्गीकृत्य नि:सीमकान्तिरसनीरधिना उद्वेलस्य

लावण्यरूपस्य रसस्य आस्वादनीयस्य जलस्य च नीरधिना

समुद्रेण अमुनैव रूपेण मुग्धविलोचनानां वामाक्षीणां मोहं

रागातिशयकृतं वैचित्त्यं विवर्धयासयसि प्रवृद्धं करोषि । अत्र

मोहापायकारणतयोपात्तेनैव रूपेण मोह: संवर्ध्यत इत्यसंगति-

विशेषोऽलंकारः ।' अन्यत्कर्तुतुं प्रवृत्तस्य तद्विरुद्धकृतिश्च सा ।

गोत्रोद्धृत्यै फिकीरिर्भूत्वा गोत्रोद्भेदं हरेऽकरोः ॥' इति तल्लक्ष-

णोदाहरणे । सेत्यसंगति: प्राक्प्रकृतोच्यते । हे हरे, त्वं

गोवोत्रोद्धृत्यै भूमेरुद्धरणाय किरि: श्रीवराहो भूत्वा गोत्रोद्भेदं

खुरकुट्टनै: पर्वतानां दलनमकरोरित्युदाहरणार्थः । स च

श्
लेषोत्थापितः ! मोहयोः संसारमूलाज्ञानरागप्रयुक्तसात्त्विक
 
-