This page has not been fully proofread.

मोहं जगञ्जयभुवामपनेतुमेत
दादाय रूपमखिलेश्वर देहभाजाम् ।
निःसीमकान्तिरसनीरधिनामुनैव
मोहं विवर्धयसि मुग्धविलोचनानाम् ॥
 
हे अखिलेश्वर सर्वेषामपि देवमनुष्यादीनां स्वामिन् ।
स्वामी खलु स्वभूतानामनिष्टनिवारणार्थ प्रवर्तते यथा गोपो
गवाम् । अतः स्वामी त्वं जगत्त्रयभुवां लोकत्रयसंभूतानां
देहभाजां मोहं संसारकारणमज्ञानमपनेतुम् एतद्रूपमिमं शुभ-
विग्रहमादायाङ्गीकृत्य नि:सीमकान्तिरसनीरधिना उद्वेलस्य
लावण्यरूपस्य रसस्य आस्वादनीयस्य जलस्य च नीरधिना
समुद्रेण अमुनैव रूपेण मुग्धविलोचनानां वामाक्षीणां मोहं
रागातिशयकृतं वैचित्त्यं विवर्धयास प्रवृद्धं करोषि । अत्र
मोहापायकारणतयोपात्तेनैव रूपेण मोह: संवर्ध्यत इत्यसंगति-
विशेषोऽलंकारः ।' अन्यत्कर्तु प्रवृत्तस्य तद्विरुद्धकृतिश्च सा ।
गोत्रोद्धृत्यै फिरिर्भूत्वा गोत्रोद्भेदं हरेऽकरोः ॥' इति तल्लक्ष-
णोदाहरणे । सेत्यसंगति: प्राक्प्रकृतोच्यते । हे हरे, त्वं
गोवोद्धृत्यै भूमेरुद्धरणाय किरि: श्रीवराहो भूत्वा गोत्रोद्भेदं
खुरकुनै: पर्वतानां दलनमकरोरित्युदाहरणार्थः । स च
लेषोत्थापितः ! मोहयोः संसारमूलाज्ञानरागप्रयुक्तसात्त्विक