This page has been fully proofread once and needs a second look.

हत्वा हठान्मृगदृशां हृदयानि यस्त्व-
मेवं निलीय किल तिष्ठसि शैलश्रृ नेङ्गे
 
हे अधिप प्रभो, त्वयि हृत् हृदयं निक्षिप्य निर्यातो मुक्तः ।
प्रस्थित इत्यपि प्रतीयते । ' निर्याणं त्वचि हस्तिन: । नेत्रान्ते
निर्गमे मोक्षे मरणे च प्रकीर्तितम् ॥' इति केशवः । पुनर्न
लभते त्वयि निक्षिप्तं हृदयं पुनर्न प्राप्नोति । षोडशकलाप्रलयेन
मुक्तो भवतीत्यर्थ: । कचिद्विस्रम्भेण स्वकीयं धनं निक्षिप्य
देशान्तरं प्रस्थितेन कालान्तरे पुनस्तत्प्राप्तव्यं हि । इह्
तत्प्राप्त्यभावोक्त्या देवस्य परकीयस्वापहारकत्वं प्रतीयते ।
तत्तदीयसौन्दर्यातिशयाभिव्यञ्जकेन वाक्यार्थेनोपपादयितुमुत्त-
रार्धम् । यस्त्वं मृगदृशां हृदयानि हठाद्लात्कारेण । हठः
पार्ष्याण्यां बलात्कारे जलोद्भवतृणान्तरे । वारिपर्णसमाख्ये च'
इति केशवः । हत्वा एवं मया मनसि भाव्यमानेन प्रकारेण
गैशैशृङ्गे निलीय तिष्ठसि, स कथं निक्षिप्तं दद्या इति भावः ।
अत्र कामिनीमनसां वशीकरणमेव तदीयस्वहरणत्वेनाध्यव-
मिसितमित्यतिशयोक्तिः । अन्त्यकाले भगवत्स्मरणमेव तत्र
हृदयनिक्षेपणत्वेनाध्यवसितमिति तत्त्राप्यतिशयोक्तिः । एवमति-
योक्तिभ्यामुत्थापितं काव्यलिङ्गमलंकारः ॥ १९ ॥
 
6
 
?