This page has been fully proofread once and needs a second look.

हत्वा हठान्मृगदृशां हृदयानि यस्त्व-

मेवं निलीय किल तिष्ठसि शैलशुश्रृ ने ॥
 

 
हे अधिप प्रभो, त्वयि हृत् हृदयं निक्षिप्य निर्यातो मुक्तः ।

प्रस्थित इत्यपि प्रतीयते । ' निर्याणं त्वचि हस्तिन: । नेत्रान्ते

निर्गमे मोक्षे मरणे च प्रकीर्तितम् ॥' इति केशवः । पुनर्न

लभते त्वयि निक्षिप्तं हृदयं पुनर्न प्राप्नोति । षोडशकलाप्रलयेन

मुक्तो भवतीत्यर्थ: । कचिद्विस्रम्भेण स्वकीयं धनं निक्षिप्य

देशान्तरं प्रस्थितेन कालान्तरे पुनस्तत्प्राप्तव्यं हि । इह्

तत्प्राप्त्यभावोक्त्या देवस्य परकीयस्वापहारकत्वं प्रतीयते ।

तत्तदीयसौन्दर्यातिशयाभिव्यञ्जकेन वाक्यार्थेनोपपादयितुमुत्त-

रार्धम् । यस्त्वं मृगदृशां हृदयानि हठाद्वलात्कारेण । हठः

पार्ष्या बलात्कारे जलोद्भवतृणान्तरे । वारिपर्णसमाख्ये च'

इति केशवः । हत्वा एवं मया मनसि भाव्यमानेन प्रकारेण

गैल निलीय तिष्ठसि स कथं निक्षिप्तं दद्या इति भावः ।

अत्र कामिनीमनसां वशीकरणमेव तदीयस्वहरणत्वेनाध्यव-

मितमित्यतिशयोक्तिः । अन्त्यकाले भगवत्स्मरणमेव तत्र

मयनिक्षेपणत्वेनाध्यवसितमिति तत्त्राप्यतिशयोक्तिः । एवमति-

भयोक्तिभ्यामुत्थापितं काव्यलिङ्गमलंकारः ॥ १९ ॥
 

 
6
 

 
?