This page has been fully proofread once and needs a second look.

उत्कृष्टमपि जन्मान्तरं नाभिलषतीति । अत्र प्रातीतिकस्यार्थस्य
प्रकृतार्थे उपमानत्वेनान्वयस्यावश्यंभावादुपमा । अङ्गानि
संसरणानीत्यत्र व्यस्तरूपकम् । रूपकोपमयोरङ्गाङ्गिभाव-
संकरः ॥ १७ ॥
 
एकत्र मन्मथमजीजनदिन्दिरायां
पूर्वं भवानिति बुधाः किमपूर्वमाहुः ।
अद्यापि तं न जनयस्परविन्दनाभ
कासु प्रसन्नमधुरस्मित कामिनीषु ॥
 
हे अरविन्दनाभ, एकत्र एकस्यामिन्दिायां लक्ष्म्यां
पूर्वं भवान् मन्मथमजीजनदिति बुधाः पुराणविदः किमपूर्व-
माहुः ? तच्चित्रं न भवति । अद्यापि कासु कामिनीषु तं रति-
भावाभिन्नत्वेनाध्यवसितं मन्मथं न जनयसि ? सर्वास्वपि
कामिनीषु जनयस्येव । मधुरस्मितेति विशेषणम् । कामिनीनामु-
द्दीपनमुद्दिश्य क्रोधेष्वपि स्मितमस्ति । तन्न प्रसन्नम् । तद्व्यावृ-
त्त्यर्थं प्रसन्नविशेषणम् । मधुराकृतिगर्भत्वेन कामिनीनां हृदयेषु
रतिभावोत्पादनमेव मन्मथजनकत्वेनाध्यवसितमित्यतिशयो-
क्त्यानुप्राणितं काव्यलिङ्गमलंकारः ॥ १८ ॥
 
निक्षिप्य हृत्त्वयि पुनर्लभते न कोऽपि
निर्यात इत्याधिप न त्वयि चित्रमेतत् ।