This page has been fully proofread once and needs a second look.

दिसद्भाव: । निधिसामान्यविवक्षायां तु तत्सद्भाव: सूपपाद: ।
अत्र सर्वोत्तर इत्याद्यभङ्गश्लेषेण शृङ्गारेति सभङ्गश्लेषेण चो-
त्थापितमनेकपदार्थहेतुकं काव्यलिङ्गमलंकारः ॥ १६ ॥
 
अङ्गानि ते निखिललोकविलोचनानां
संभावनीयगुण संसरणानि सत्यम् ।
येष्वेकमाप्य न पुराधिगतं स्मरन्ति
वाञ्छन्ति नान्यदपि लब्धुमदो बिहाय ॥
 
हे संभावनीयगुण सकललोकश्लाघ्यकल्याणगुणनिकर,
ते तव अङ्गानि सकललोकविलोचनानां देवमनुष्यादिसर्वजन-
नयनानां संसरणानि नित्यसंचरणार्था महामार्गाः । ’घण्टा-
पथः संसरणम्' इत्यमरः । संसरणानीत्यनेन संसारा
जन्मभेदा इत्यपि प्रतीयते । तमर्थं परिगृह्योच्यते- सत्यं संस-
रणानीत्येतत्साम्प्रतम् । कुतः ? येष्वङ्गेषु क्रमेण दृश्यमानेषु
एकमवाप्य प्राप्य पुराधिगतं पूर्वदृष्टमङ्गं न स्मरन्ति, लोक-
विलोचनानीति शेषः । अदो विहाय अन्यदपि लब्धुं दृश्य-
मानमङ्गं विहायाङ्गान्तरमपि द्रष्टुं न वाञ्छन्ति । तत्तदङ्गद-
र्शनजनितपरमानन्दनिमग्नत्वात्पूर्वदृष्टाङ्गविस्मरणमङ्गान्तरदर्श-
मानभिलाषश्चेति प्रत्यवयवं सौन्दर्यातिशयाभिव्यक्तिः । संसा-
स्याप्ययं स्वभावः यदेकं जन्म प्राप्तः प्राचीनं जन्म न स्मरति