This page has been fully proofread once and needs a second look.

३६
 
:
 
हे द्विपशैलमौले । 'मौलि: किरीटे धम्मिल्ले' इत्यभिधा-

नकोश: । किरीटवच्छिरो भूषयतीति तथात्वाध्यवसायरूपा-

तिशयोक्ति: । कल्याणरूपः सर्वजनहृदयहारितया शोभनरूपः

स एवाक्षीणसुवर्णरूप इति त्वयि कश्चित्वादः आश्चर्यवादः ?

नेदमाश्चर्यमित्यर्थः । कल्याणस्तूत्सवे क्लीबं मङ्गलाक्षयरु-

क्मयोः' इति केशवः । श्लेषेणाध्यवसिताक्षयस्वर्णरूपत्वस्यो-

पपादनार्थं तदितरमहामेरुगुणगणसद्भावः श्लेषेण प्रदर्श्यते-

सर्वोत्तरः सर्वाधिकोऽसि । मेरुरपि तथा, सर्वेषामुत्तरो

मेरु: ' इति वचनात् । सूर्याभिमुखस्य सव्यभागस्था उत्तरा

भवन्ति । मेरुं प्रदक्षिणीकुर्वाणः सूर्यो यत्पार्श्वस्थेन पुरुषेणा-

भिमुखेन निरीक्ष्यते तस्य सर्वस्यापि महामेरुः सव्यभागस्थ

एव भवतीति तस्य सर्वोत्तरत्वम् । सकलत्रिदशाश्रयोऽसि

सर्वेषां देवानां रक्षकतया भगवानाश्रयः, मेरुरावासतया ।

ज्योतिश्छटया तेजोनिकरेण घटितं यञ्च्चक्रं सुदर्शनं तेन परि-

ष्कृतोऽलंकृतो भवान्, मेरुस्तु आदित्यादिज्योतिःसमूहघटि-

तेन ज्योतिश्चक्रेण परिवृतः । शृङ्गारस्य शेवधिर्भवान् । मेरुस्तु

शृङ्गमृच्छन्तीति शृङ्गाराः । कर्मण्यण् । तथाभूताः शेवघयो
धयो
महापद्मादिनिधयो यस्येति शृङ्गारशेवधिः । मेरोर्मध्ये चतुर्मु-
स्व

स्य पुरी, तां पुरीं परितो लोकपालानामष्टौ पुर्य इति पौरा--

णिकी प्रसिद्धिः । तदन्तर्गते तत्र कुबेरावासे पद्ममहापद्मा-