This page has not been fully proofread.

३६
 
:
 
हे द्विपशैलमौले । 'मौलि: किरीटे धम्मिल्ले' इत्यभिधा-
नकोश: । किरीटवच्छिरो भूषयतीति तथात्वाध्यवसायरूपा-
तिशयोक्ति: । कल्याणरूपः सर्वजनहृदयहारितया शोभनरूपः
स एवाक्षीणसुवर्णरूप इति त्वयि कश्चित्ववादः आश्चर्यवादः ?
नेदमाश्चर्यमित्यर्थः । कल्याणस्तूत्सवे क्लीबं मङ्गलाक्षयरु-
क्मयोः' इति केशवः । श्लेषेणाध्यवसिताक्षयस्वर्णरूपत्वस्यो-
पपादनार्थं तदितरमहामेरुगुणगणसद्भावः श्लेषेण प्रदर्यते-
सर्वोत्तरः सर्वाधिकोऽसि । मेरुरपि तथा सर्वेषामुत्तरो
मेरु: ' इति वचनात् । सूर्याभिमुखस्य सव्यभागस्था उत्तरा
भवन्ति । मेरुं प्रदक्षिणीकुर्वाणः सूर्यो यत्पार्श्वस्थेन पुरुषेणा-
भिमुखेन निरीक्ष्यते तस्य सर्वस्यापि महामेरुः सव्यभागस्थ
एव भवतीति तस्य सर्वोत्तरत्वम् । सकलत्रिदशाश्रयोऽसि
सर्वेषां देवानां रक्षकतया भगवानाश्रयः, मेरुरावासतया ।
ज्योतिश्छटया तेजोनिकरण घटितं यञ्चक्रं सुदर्शनं तेन परि-
ष्कृतोऽलंकृतो भवान्, मेरुस्तु आदित्यादिज्योतिःसमूहघटि-
तेन ज्योतिश्चक्रेण परिवृतः । शृङ्गारस्य शेवधिर्भवान् । मेरुस्तु
शृङ्गमृच्छन्तीति शृङ्गाराः । कर्मण्यण् । तथाभूताः शेवघयो
महापद्मादिनिधयो यस्येति शृङ्गारशेवधिः । मेरोर्मध्ये चतुर्मु-
स्वस्य पुरी, तां पुरीं परितो लोकपालानामष्टौ पुर्य इति पौरा--
णिकी प्रसिद्धिः । तदन्तर्गते तत्र कुबेरावासे पद्ममहापद्मा-