This page has been fully proofread once and needs a second look.

३५
 

 

 

 
बटयक्षवदाविभाति । लोके गतानुगतिकत्ववशादुपेतामेतां निव-

र्तयितुमेष परिश्रमो नः ॥ ' इति भोजराजः । तस्य देवतासि ।

शृङ्गारस्य देवता विष्णुर्हास्यस्य भृङ्गिरिटिरित्यादि भरतशास्त्र -

विदो वदन्ति । सर्वगुणोत्तमानां सर्वेषां कल्याणगुणानामावा-

मभूमिरसि । यथा रत्नानि जलधेरसंख्येयानि पुत्रक । तथा

गुणा ह्यनन्तस्याप्यसंख्येया महात्मनः ॥ समस्तकल्याणगुणा-

स्मकोऽसौ ' इत्यादि मात्स्यवैष्णवपुराणादिषु प्रसिद्धतरमेतत् ।

' प्रायो विरूपेषु भवन्ति दोषा यत्राकृतिस्तत्र गुणा वसन्ति'

इति सामुद्रिकशास्त्रविदः । नैषधचरितेऽप्युक्तम् –' त्वदुदाह-

ग्णाकृतौ गुणा इति सामुद्रिकसारमुद्रणा' इति । एवंभूतस्य

तष रूपरेखां सौन्दर्यस्य निरन्तरालपकिंपङ्क्तिं पादादिकेशान्तेषु

सर्वे
ष्वप्यवयवसंस्थानविशेषेषु रूपस्य सौन्दर्यस्य निरिछश्छिद्रतया
गा

सद्भा
वं को वर्णयतु ? न कोऽपि वर्णयितुं शक्त इत्यर्थः ।
ग्या

रेखा
त्वकृत्रिमे मार्गे हस्तपादतलादिषु । निरन्तरालपकौङ्क्तौ

वदन्ति
विदितागमाः ॥' इति केशवः । अत्रापि पूर्ववत्काव्य-

( गमेवालंकारः ॥ १५ ॥

र्वोत्तरोऽमिसि सकलविस्त्रिदशाश्रयोऽसि

ज्योतिश्छटाघटितचक्रपरिष्कृतोऽमि ।
सि ।
शृङ्गारशेवधिरसि द्विपशैलमाले
 

कल्याणरूप इति कस्त्वयि चित्रवादः ॥