This page has been fully proofread once and needs a second look.

इति । इह परिदृश्यमानापि रूपसामग्री समुद्रवदप्रतर्क्या,
कुतस्तत्र सूक्ष्मस्वभावावगतिरिति । अत्र वाक्यार्थत्रयहेतुकं
काव्यलिङ्गमलंकारः ॥ १४ ॥
 
लक्ष्म्याः प्रियोऽसि रतिकेलिकृतः पितासि
विश्वैकमोहनरसस्य च देवतासि ।
आवासभूमिरसि सर्वगुणोत्तमानां
वैकुण्ठ वर्णयतु कस्तव रूपरेखाम् ॥१५॥
 
हे वैकुण्ठ, लक्ष्म्याः प्रियोऽसि श्रीमहालक्ष्म्याः स्वयंवर -
लब्धो वल्लभोऽसि । सा खलु सर्वोत्तमरूपशालिनी स्वानुगुणं
पतिमन्विच्छन्ती सर्वान्देवान्परित्यज्य पुरुषोत्तममाससादेति
पुराणादिषु प्रसिद्धिः । रतिकेलिकृतः स्मरस्य पुरुषेषु सर्वोत्तर-
सौन्दर्यतया प्रसिद्धस्य पितासि । पितापुत्रयोः सारूप्यं लो-
कप्रसिद्धम् । उक्तं चापस्तम्बेन- 'अथापि स एवायं वि-
रूढः पृथक्प्रत्यक्षेणोपलभ्यते चापि सारूप्यं देहत्वमेवान्यत्'
इति । देह एवान्य इत्यर्थः । अथापि अपि चेत्यर्थः । विश्व-
स्य एक: प्रधानभूतो मोहनो यो रसः शृङ्गाररसः । ' शृङ्गा-
रवीरकरुणाद्भुतहास्यरौद्रबीभत्सवत्सलभयानकशान्तनाम्नः ।
आम्नासिषुर्दश रसान्कवयो वयं तु शृङ्गारमेव रसनाद्रसमाम-
नामः ॥ वीराद्भुतादिषु च येह रसप्रसिद्धिः सिद्धा कुतोऽपि