This page has been fully proofread once and needs a second look.

३४
 
इति । इह परिदृश्यमानापि रूपसामग्री समुद्रवदप्रतर्क्या,

कुतस्तत्र सूक्ष्मस्वभावावगतिरिति । अत्र वाक्यार्थत्रयहेतुकं

कात्र्व्यलिङ्गमलंकारः ॥ १४ ॥
 

 
लक्ष्म्याः प्रियोऽसि रतिकेलिकृतः पितामि
सि
विश्वैकमोहनरसस्य च देवतासि ।

आवासभूमिरमिसि सर्वगुणोत्तमानां

वैकुण्ठ वर्णयतु कस्तव रूपरेखाम् ॥१५॥
 

 
हे वैकुण्ठ, लक्ष्म्याः प्रियोऽसि श्रीमहालक्ष्म्याः स्वयंवर -

लब्धो वल्लभोऽसि । सा खलु सर्वोत्तमरूपशालिनी स्वानुगुणं

पतिमन्विच्छन्ती सर्वान्देवान्परित्यज्य पुरुषोत्तममाससादेति

पुराणादिषु प्रसिद्धिः । रतिकेलिकृतः स्मरस्य पुरुषेषु सर्वोत्तर-

सौन्दर्यतया प्रसिद्धस्य पितासि । पितापुत्रयोः सारूप्यं लो-

कप्रसिद्धम् । उक्तं चापस्तम्बेन- 'अथापि स एवायं वि-

रूढः पृथक्प्रत्यक्षेणोपलभ्यते चापि सारूप्यं देहत्वमेवान्यत्'

इति । देह एवान्य इत्यर्थः । अथापि अपि चेत्यर्थः । विश्व-

स्य एक: प्रधानभूतो मोहनो यो रसः शृङ्गाररसः । ' शृङ्गा-

रवीरकरुणाद्भुतहास्यरौद्रबीभत्सवत्सलभयानकशान्तनाम्नः 1

आम्नासिषुर्दश रसान्कवयो वयं तु शृङ्गारमेव रसनाद्रसमाम-

नामः ॥ वीराद्भुतादिषु च येह रसप्रसिद्धिः सिद्धा कुतोऽपि