This page has been fully proofread once and needs a second look.

रपि प्रत्यङ्मुखत्वं हेतुरिति श्लेषोत्थापितं पदार्थहेतुकं काव्य-
लिङ्गमलंकारः ॥ १३ ॥
 
यस्मिञ्जहात्यतिशयोक्तिरलंकृतित्वं
न्यूनोपमात्वमुपमा समुपैति सर्वा।
सूक्ष्मस्वभावकलनापि च न प्रतर्क्या
तद्वर्णयामि भवतः कथमाभिरूप्यम् ॥
 
भवतः आभिरूप्यं सौन्दर्यं तत्कथं वर्णयामि ? कथमपि व-
र्णयितुं न शक्नोमि । उक्तिवैचित्र्यं हि वर्णनम् । तन्न तावदतिश-
योक्त्यलंकारेण संभवति । अतिशयोक्तिरसत्कल्पनया कविप्रौ-
ढोक्तिसिद्धया भवति । यथा - ' सौधाग्राणि पुरस्यास्य स्पृशन्ति
विधुमण्डलम्' इति । इह यो यावानतिशयः स्वमत्या परिकल्पित
इव स सर्वोऽपि वस्तुवृत्त एव भवेत्, तमप्यतिशयीत वेति ना-
तिशयोक्तिरलंकृतित्वं भजते । ततो न्यूनकक्ष्या उपमा सर्वापि
न्यूनत्वमयते । यथा— ' वह्निस्फुलिङ्ग इव भानुरयं चकास्ति’
इति । क्वचिदप्युपमानाधिक्यासं भवादलंकाररूपोपमात्र न
प्रवर्तते । स्वभावोक्तिमात्रमप्यत्र न संभवति । सूक्ष्मवस्तुस्व-
वर्णनं हि स्वभावोक्तिः । यथा - ' तौ संमुखं प्रचलितौ
"सविधे गुरूणां मार्गप्रदानरभसस्खलितावधानौ । पार्श्वोपस -
"र्वणमुभावपि भिन्नदिक्कं कृत्वा मुहुर्मुहुरुपासरतां सलज्जम् ॥'