This page has been fully proofread once and needs a second look.

रूपं नपुंसकम् । स्वभावाकृतिसौन्दर्यवपुःषु श्लोकशब्दयोः ॥’
इति केशवः । चिरतरं नयनैर्निपीय बहुषु जन्मसु प्रार्थितं
साक्षाद्भगवदर्शनं लब्धमित्यादरेण बहुं कालमवलोक्य एत-
द्रूपम् अस्थानमाप्तवचसामवितर्कणीयम् आप्तवाक्यैरनुमानैर्वा
इदमित्थमिति निर्धारयितुमशक्यम् आश्चर्यं परं ब्रह्मेति
निश्चयमावहन्ते निश्चिन्वन्तीत्यर्थः आश्चर्यमिति सकल-
जगत्स्रष्टृत्वादिमहिमशालि परं ब्रह्म भगवानुच्यते । अत
एव हरिवंशे आश्चर्योपाख्याने श्रीकृष्णं प्रति नारदवच-
नंम् - ' आश्चर्यं खलु देवानामेकस्त्वं पुरुषोत्तम धन्य
श्चासि महाबाहो लोके नान्योऽस्ति कश्चन ॥' इति
कठवल्लीषु च ’आश्चर्यो वक्ता कुशलोऽस्य लब्धा
आश्चर्यो ज्ञाता कुशलानुशिष्ट:' इति परब्रह्मविषये वक्तृ-
श्रोतॄगामण्याश्चर्यत्वोक्या तस्यात्यन्ताश्चर्यत्वं कैमुतिकन्या-
येन दर्शितम् । अत्र प्रत्यङ्मुखा इत्यनेन प्रत्यगा-
शाभिमुखा इत्यपि प्रतीयते । प्रत्यगाशाभिमुख: पुरुष: प्रत्य-
गाशाभिमुखैरन्यैः स्वाभिमुखतया न दृश्यते, तथापि तथा
दृश्यमानं भगवद्रूपमत्याश्चर्यमिति निश्चिन्वन्तीति ततोऽर्था-
न्तरं लभ्यते । तस्मिन्नर्थेऽत्यन्तानुपपन्नमिदं कथमुपपादयितुं
शक्यमित्येतदर्थत्वेन । चिरतरदर्शनं योजनीयम् प्रकृतार्थे तु
तृष्णातिरेकेणेति स्पष्टमेव । अत्राश्चर्यत्वे द्रष्टृदृश्ययोरुभयो