This page has been fully proofread once and needs a second look.

३२
 
·
 
रूपं नपुंसकम् । स्वभावाकृति सौन्दर्यवपुःषु श्लोकशब्दयोः ॥

इति केशवः । चिरतरं नयनैर्निपीय बहुषु जन्मसु प्रार्थितं

साक्षाद्भगवदर्शनं लब्धमित्यादरेण बहुं कालमवलोक्य एत-

द्रूपम् अस्थानमाप्तवचसामावितर्कर्णायमणीयम् आप्तवाक्यैरनुमानैर्वा

इदमित्थमिति निर्धारयितुमशक्यम् आश्चर्यं परं ब्रह्मेति

निश्चयमावहन्ते निश्चि-न्वन्तीत्यर्थः आश्चर्यमिति सकल-

जगत्स्रष्टृत्वादिमहिमशालि परं ब्रह्म भगवानुच्यते । अत

एव हरिवंशे आश्चर्योपाख्याने श्रीकृष्णं प्रति नारदवच-

नंम् - ' आश्चर्यं खलु देवाना मेकस्त्वं पुरुषोत्तम धन्य

श्चासि महाबाहो लोके नान्योऽस्ति कश्चन ॥'
इति
कठवल्लीषु च आश्चर्यो वक्ता
 

 
इति ।
 
कुशलो ऽस्य
 
लब्धा
 

आश्चर्यो ज्ञाता कुशलानुशिष्ट : ' इति परब्रह्मविषये वक्तृ-

श्रोतॄगामण्याश्चर्यत्वोक्या तस्यात्यन्ताश्चर्यत्वं कैमुतिकन्या-

येन दर्शितम् । अत्र प्रत्यङ्मुखा इत्यनेन प्रत्यगा-

शाभिमुखा इत्यपि प्रतीयते । प्रत्यगाशाभिमुख: पुरुष: प्रत्य-

गाशाभिमुखैरन्यैः स्वाभिमुखतया न दृश्यते, तथापि तथा

दृश्यमानं भगवद्रूपमत्याश्चर्यमिति निश्चिन्वन्तीति ततोऽर्था-

न्तरं लभ्यते । तस्मिन्नर्थेऽत्य-न्तानुपपन्नमिदं कथमुपपादयितुं

शक्यमित्येतदर्थत्वेन । चिरतरदर्शनं योजनीयम् प्रकृतार्थे तु

तृष्णातिरेकेणेति स्पष्टमेव । अत्राश्चर्यत्वे द्रष्टृदृश्ययोरुभयो
 
,