This page has been fully proofread once and needs a second look.

अन्यैस्तदितरैः पुण्यकोटिं भवद्विमानं सुकृतानां कोटिं च

अनाप्य अलब्ध्वा कथं प्राप्यः ? न कथंचिदपीत्यर्थः । अना-

येत्यत्र आङ्पूर्वादाप्नोतेः क्त्वा प्रत्ययस्य ल्यवाबादेशो नञ्समा -

मश्च । अत्र पुण्यकोटिशब्दश्लेषोत्थापितोऽर्थापत्तिरलंकारः ।

भगवद्दर्शनलिप्सया अनादिसिद्धे सत्यत्व्रतक्षेत्रे हयमेधेन भगव-

न्तमाराधयतो हिरण्यगर्भस्य उत्तरवेद्यां तस्मै दर्शनं दातुं

भगवानाविर्भूत इति पौराणिकी कथा । तथोक्तं ब्रह्माण्डे

विष्णुना- पुरा कृतयुगे राजञ्जम्बूद्वीपे तु दक्षिणे । भागे

भारतवर्षे च क्षेत्रे सत्यत्व्रताभिधे ॥ चैत्रे मासि सिते पक्षे

चतुर्दश्यां तिथौ मुने । शोभने हस्तनक्षत्रे रविवारसमन्विते ॥

पाहोमे प्रवृत्ते तु प्रातःसवनकल्पिते । धातुरुत्तरवेद्यां तु

प्रादुरा सीज्जनार्दनः । आराधितो जगद्धात्रा हयमेधेन तद्विगिरौ ।'

इति ॥ १२ ॥
 
:
 

 
प्रत्यङ्मुखं तव गजाचलराज रूपं

प्रत्यङ्मुखाश्चिरतरं नयनैर्निपीय ।

अस्थानमाप्तवच सामवितर्कणीय-

माश्चर्यमेतदिति निश्चयमावहन्ते ॥ १३ ॥
 

 
हे गजाचलराज, प्रत्यङ्मुखाः प्रत्यग्दृष्टयस्तत्त्वविदः प्र-

प्रत्यङ्
मुखं पश्चिमाशाभिमुखं तव रूपं दिव्यविग्रहम् । अथ
 
.