This page has not been fully proofread.

अन्यैस्तदितरैः पुण्यकोटिं भवद्विमानं सुकृतानां कोटिं च
अनाप्य अलब्ध्वा कथं प्राप्यः ? न कथंचिदपीत्यर्थः । अना-
येत्यत्र आङ्पूर्वादानोतेः क्त्वा प्रत्ययस्य ल्यवादेशो नसमा -
मश्च । अत्र पुण्यकोटिशब्दश्लेषोत्थापितोऽर्थापत्तिरलंकारः ।
भगवदर्शनलिसया अनादिसिद्धे सत्यत्रतक्षेत्रे हयमेधेन भगव-
न्तमाराधयतो हिरण्यगर्भस्य उत्तरवेद्यां तस्मै दर्शनं दातुं
भगवानाविर्भूत इति पौराणिक कथा । तथोक्तं ब्रह्माण्डे
विष्णुना- पुरा कृतयुगे राजञ्जम्बूद्वीपे तु दक्षिणे । भागे
भारतवर्षे च क्षेत्रे सत्यत्रताभिधे ॥ चैत्रे मासि सिते पक्षे
चतुर्दश्यां तिथौ मुने । शोभने हस्तनक्षत्रे रविवारसमन्विते ॥
पाहोमे प्रवृत्ते तु प्रातःसवनकल्पिते । धातुरुत्तरवेद्यां तु
प्रादुरा सीजनार्दनः । आराधितो जगद्धात्रा हयमेधेन तद्विरौ ।'
इति ॥ १२ ॥
 
:
 
प्रत्यङ्मुखं तव गजाचलराज रूपं
प्रत्यङ्मुखाश्चिरतरं नयनर्निपीय ।
अस्थानमाप्तवच सामवितर्कणीय-
माश्चर्यमेतदिति निश्चयमावहन्ते ॥ १३ ॥
 
हे गजाचलराज प्रत्यङ्मुखाः प्रत्यग्दृष्टयस्तत्त्वविदः प्र-
यमुखं पश्चिमाशाभिमुखं तव रूपं दिव्यविग्रहम् । अथ
 
.