This page has been fully proofread once and needs a second look.

मातङ्गशैले हस्तिगिरौ प्रादुर्भूतं यत्पुण्यकोट्याख्यं महा-
विमानं तत्समीपप्राप्त्यर्थं गिरेरधिरोहणाय चतुर्मुखेण क्लृप्ता
या सोपानपर्वणां चतुर्विंशतिः तामेव तत्त्वविततिमिति व्यस्त-
रूपकम् । तत्त्वानां मूलप्रकृतिमहदहंकारपञ्चतन्मात्रपञ्चभूतै-
कादशेन्द्रियरूपतया चतुर्विंशतिसंख्यानां विततिं पङ्क्तिमतिल-
ङ्घ्य पुरुषः पञ्चविंशः भवन्तं षड्विंशमीश्वरं पश्यन्भवाब्धेः
पारमुपयाति । विषयदोषदर्शनेन त्यक्तसकलप्रकृतिविकारो
विरक्त: खलु पुरुष: परमेश्वरं दृष्ट्वा संसारं तरति
इह तु यः कश्चिद्गिरिमारुह्य भगवन्तं पश्यन्संसारं
तरतीति व्यस्तरूपकेण तामेव तत्त्वविततिमित्येवकारेण सा-
हित्यादयत्नसाध्यत्वसूचकेन यद्धृध्वन्यते तेन व्यतिरेकालंकार-
पर्यवसायीदमधिकरूपकम् ॥ ११ ॥
 
नापारि लब्धुमरविन्दभुवापि साक्षा
द्यं पूर्वमीश्वर विना हयमेधपुण्यम् ।
अन्यैरनाप्य स कथं तव पुण्यकोटिं
प्राप्यस्त्वदाकृतिविलोकनजः प्रमोदः ॥१२॥
 
हे ईश्वर, पूर्वं साक्षादरविन्दभुवापि हयमेधपुण्यं विना
यं प्राप्तुं नापारि न शक्तमासीत्, स तथाभूतः त्वदाकृति-
विलोकनज: त्वद्रूपावलोकनप्रभवः प्रमोदः प्रकृष्ट आनन्दः