This page has been fully proofread once and needs a second look.

मातङ्गशैले हस्तिगिरौ प्रादुर्भूतं यत्पुण्यकोट्याख्यं महा-

विमानं तत्समीपप्राप्त्यर्थं गिरेरधिरोहणाय चतुर्मुखेण क्लृप्ता

या सोपानपर्वणां चतुर्विंशतिः तामेव तत्त्वविततिमिति व्यस्त-

रूपकम् । तत्त्वानां मूलप्रकृतिमहदह्ंक (हंकारपञ्चतन्मात्र
पञ्चभूतै-
कादशेन्द्रियरूपतया चतुर्विंशतिसंख्यानां विततिं पक्तिमतिल-

ङ्घ्य पुरुषः पञ्चविंशः भवन्तं षडिंड्विंशमीश्वरं पश्यन्भवाब्धेः

पारमुपयाति । विषयदोषदर्शनेन त्यक्तसकलप्रकृतिविकारो

विरक्त: खलु पुरुष: परमेश्वरं दृष्ट्वा संसारं तरति

ह् तु यः कश्चिद्गिरिमारुह्य भगवन्तं पश्यन्संसारं

तरतीति व्यस्तरूपकेण तामेव तत्त्वविततिमित्येवकारेण सा-

हित्यादयत्न साध्यत्वसूचकेन यद्धृन्यते तेन व्यतिरेकालंकार-

पर्यवसायीदमधिकरूपकम् ॥ ११ ॥
 

 
नापारि लब्धुमरविन्दभुवापि साक्षा

द्यं पूर्वमीश्वर विना हयमेधपुण्यम् ।

अन्यैरनाप्य स कथं तव पुण्यकोटिं

प्राध्प्यस्त्वदाकृतिविलोकनजः प्रमोदः ॥१२॥
 

 
हे ईश्वर, पूर्वं साक्षादरविन्दभुवापि हयमेधपुण्यं विना

यं प्राप्तुं नापारि न शक्तमासीत्, स तथाभूतः त्वदाकृति-

विलोकनज: त्वद्रूपावलोकनप्रभवः प्रमोदः प्रकृष्ट आनन्दः
 
;