This page has been fully proofread once and needs a second look.

योगदर्शनात् । एवं च पूर्वपूर्वप्रहाणेनोत्तरोत्तरानुप्रवेशः को-
शेषु सालेषु चास्तीति तत्साम्यम् । आनन्दवल्ल्यामुदितमुक्तं
यत्फलम् ’सोऽश्नुते सर्वान्कामान्' इति ’आनन्दं ब्रह्मणो
विद्वान्न बिभेति कुतश्चन' इति च । तस्यानुरूपं तत्प्रदानोचि-
तकरणे अभिरूपं विश्रुतं विचक्षणं वा । ’अभिरूप: सुरूपे
च विश्रुते च विचक्षणे' इति केशवः । विश्रुतं हि भगव-
द्रूपमानन्दवल्ल्यादिषूपनिषत्सु । विपश्चिच्च सः, ’ब्रह्मणा
विपश्चिता' इति श्रुतेः । एवंभूतं रूपं निरतिशयानन्दपरि-
पूर्णं परब्रह्मस्वरूपमेव । ताद्रूप्यमिह भगवत्स्वरूपस्य कवि-
संरम्भगोचरः । न चोपमोपक्रमादग्रेऽप्युपमयैव भाव्यमिति नि-
यमोऽस्ति, भेदगर्भोपमापेक्षया रूपकस्योत्कृष्टत्वेनोपमोपक्रम-
म्यापि रूपकपर्यवसानोपपत्तेः । रूपकमुपक्रम्योपमापर्यवसा-
नकरणे हि प्राक्प्रकर्षता स्यात् । तस्मादुपमया आनन्दवल्ल्यु-
दितेत्यादिश्लेषेण चोत्थापिता भगवद्रूपमिदमेवानन्दवल्लीप्रति -
पादितं परब्रह्मरूपमित्यभेदाध्यवसानरूपातिशयोक्तिरलंकारः ॥
 
मातङ्गशैलमणिशृङ्गमहाविमान
सोपानपर्वचतुरुत्तरविंशतिर्या ।
तामेव तत्त्वविततिं पुरुषो विलङ्घ्य
पश्यन्भवन्तमुपपाति भवाब्धिपारम् ॥