This page has been fully proofread once and needs a second look.

1
 
'ब्रह्मणा
 
योगदर्शनात् । एवं च पूर्वपूर्वप्रहाणेनोत्तरोत्तरानुप्रवेशः को-

शेषु सालेषु चास्तीति तत्साम्यम् । आनन्दवल्ल्यामुदितमुक्तं

यत्फलम् · सोऽश्नुते सर्वान्कामान्' इति : आनन्दं ब्रह्मणो
'

विद्वान्न बिभेति कुतश्चन' इति च । तस्यानुरूपं तत्प्रदानोचि-

तकरणे अभिरूपं विश्रुतं विचक्षणं वा । अभिरूप: सुरूपे

च विश्रुते च विचक्षणे' इति केशवः । विश्रुतं हि भगव-

द्रूपमानन्दवल्ल्यादिषूपनिषत्सु । विपश्चिञ्च्च सः,
’ब्रह्मणा
विपश्चिता' इति श्रुतेः । एवंभूतं रूपं निरतिशयानन्दपरि-

पूर्णं परब्रह्मस्वरूपमेव । ताद्रूप्यमिह भगवत्स्वरूपस्य कवि-

संरम्भगोचरः । न चोपमोपक्रमादग्रेऽप्युपमयैव भाव्यमिति नि-
ग्र

मोऽस्ति ., भेदगर्भोपमापेक्षया रूपकस्योत्कृष्टत्वेनोपमोपक्रम-

म्यापि रूपकपर्यवसानोपपत्तेः । रूपकमुपक्रम्योपमापर्यवसा-

नकरणे हि प्राक्प्रकर्षता स्यात् । तस्मादुपमया आनन्दवल्ल्यु-
वि

दि
तेत्यादिश्लेषेण चोत्थापिता भगवत्द्रूपमिदमेवानन्दवल्लीप्रति -

पादितं परब्रह्मरूपमित्यभेदाध्यवसानरूपातिशयोक्तिरलंकारः ॥
 

 
मातङ्गशैलमणिशृङ्गमहाविमान

सोपानपर्वचतुरुत्तरविंशतिर्या ।

तामेव तत्त्वविततिं पुरुषो विलमय
ङ्घ्य
पश्यन्भवन्तमुपपाति भवान्ब्धिपारम् ॥