This page has been fully proofread once and needs a second look.

२८
 
आनन्दवल्ल्युदित दिव्य फलानुरूपं

रूपं त्वदीयमवलोकयतेऽभिरूपम् ॥ १० ॥
 

 
हे त्रिदशनायक देवराज, सौवर्णसालवलयान् काञ्च्यां

भवन्मन्दिरस्य ये काञ्चनप्राकारवलयाः तान् चतुरः पञ्च

वा अनुप्रविश्य कोऽपि धन्य: अनेकजन्मार्जितसुकृतपरिपा-

कशाली विपश्चित्कश्चित् त्वदीयमभिरूपं सुन्दरं रूपं दिव्य-

विग्रहमवलोकयते । कीदृशम् ? आनन्दवल्ल्युदितादिव्यफ-

लानुरूपम् आनन्दरूपायां लतायामुदितमुत्पन्नं यत्फलं तद-

नुरूपं तत्समानम् । वल्ल्यपेक्षया फलमेव खलु स्वादुतरम् ।

ततश्चानन्दवल्ल्युत्पन्नफलसाम्योक्त्या लौकिकमानुषानन्दादि-

हैरण्यगर्भानन्दपर्यन्तो य आनन्द: प्रसिद्धः तदपेक्षयात्यन्ता-

तिशयशाल्यवाङ्मनसगोचरमानन्दरूपत्वमनयोक्तिभङ्गया द-

र्शितं भवति । कोशानिवेत्युपमा । तैत्तिरीयाणामानन्दवल्ल्या-

ख्येऽनुवाके यन्निरतिशयानन्दपरिपूर्णं परं ब्रह्म प्रतिपादितं

तानूद्रुष्यमिह भगवद्विग्रहस्यासूवित्रितम् ।" तन्निर्व्यूढमुत्तरार्धेन ।

आनन्दवल्ल्यामन्नमयप्राणमयमनोमयविज्ञानमयाख्याश्चत्वारः

कोशाः सानन्दमयाः पञ्च वा प्रतिपिपादयिषितस्य ब्रह्मणः

सुख प्रतिपत्त्यर्था निरूपिताः । तेषामनुप्रवेश: प्रतिपत्तिः,

यस्य यस्य हि यो भावस्तेन तेन हि तं नरम् । अनुप्र-

विश्य मेधावी क्षिप्रमात्मवशं नयेत् ॥' इति तस्यां तत्प्र-
6