This page has not been fully proofread.

२८
 
आनन्दवल्ल्युदित दिव्य फलानुरूपं
रूपं त्वदीयमवलोकयतेऽभिरूपम् ॥ १० ॥
 
हे त्रिदशनायक देवराज, सौवर्णसालवलयान् काञ्च्यां
भवन्मन्दिरस्य ये काञ्चनप्राकारवलयाः तान् चतुरः पञ्च
वा अनुप्रविश्य कोऽपि धन्य: अनेकजन्मार्जितसुकृतपरिपा-
कशाली विपश्चित्कश्चित् त्वदीयमभिरूपं सुन्दरं रूपं दिव्य-
विग्रहमवलोकयते । कीदृशम ? आनन्दवल्ल्युदितादिव्यफ-
लानुरूपम् आनन्दरूपायां लतायामुदितमुत्पन्नं यत्फलं तद-
नुरूपं तत्समानम । वल्ल्यपेक्षया फलमेव खलु स्वादुतरम् ।
ततश्चानन्दवल्ल्युत्पन्नफलसाम्योक्त्या लौकिकमानुषानन्दादि-
हैरण्यगर्भानन्दपर्यन्तो य आनन्द: प्रसिद्धः तदपेक्षयात्यन्ता-
तिशयशाल्यवाङ्मनसगोचरमानन्दरूपत्वमनयोक्तिभङ्गया द-
र्शितं भवति । कोशानिवेत्युपमा । तैत्तिरीयाणामानन्दवल्ल्या-
ख्येऽनुवाके यन्निरतिशयानन्दपरिपूर्ण परं ब्रह्म प्रतिपादितं
तानूष्यमिह भगवद्विग्रहस्यासूवितम् ।" तन्निर्व्यूढमुत्तरार्धेन ।
आनन्दवल्ल्यामन्नमयप्राणमयमनोमयविज्ञानमयाख्याचत्वारः
कोशाः सानन्दमयाः पञ्च वा प्रतिपिपादयिषितस्य ब्रह्मणः
सुख प्रतिपत्त्यर्था निरूपिताः । तेषामनुप्रवेश: प्रतिपत्तिः,
यस्य यस्य हि यो भावस्तेन तेन हि तं नरम् । अनुप्र-
विश्य मेधावी क्षिप्रमात्मवशं नयेत् ॥' इति तस्यां तत्प्र-
6