This page has been fully proofread once and needs a second look.

भगवति वासुदेवेऽमलाशयाः ॥' इति । विरजाया: परमपद -
प्राप्तिहेतुत्वम् ' स आगच्छति विरजां नदीं तां मनसैवात्येति'
इति श्रुतम् । तदुत्तरणानन्तरमेव परमपदप्राप्तेस्तस्याः शुद्धिहे-
तुत्वम्, तदुत्तरणानन्तरमेव मध्ये चन्द्रसंवादाद्यर्थं तावत्पर्य -
न्तमनुवृत्तस्य प्राकृतस्य सूक्ष्मदेहस्यापि विलयात्ततिक्रमणान-
न्तरमेव भगवल्लोकं प्रविष्टस्य भगवद्देहदिव्यगन्धरसप्राप्तिरपि
पर्यङ्कविद्यायां श्रुता ’तं ब्रह्मगन्धः प्रविशति तं ब्रह्मरसः प्रविशति'
इति च । यद्यपि पर्यङ्कविद्यायाम् 'तद्ब्रह्माहाभिधावत मम यशसा
विजरां वा अयं नदीं प्रापन्न वा अयं जरिष्यति' इत्यर्चि-
रादिमार्गेण विरजानदीसमीपमागतस्य ब्रह्मज्ञस्य प्रत्यागमनार्थं
पञ्चशतान्यप्सरसां प्रेषयत: परब्रह्मणो भगवतो वचने विज-
रेति नदीनाम श्रुतं तथैव तत्र निरुक्तं च, तथापि लोकप्र-
श्वादानुसाराद्विरजामिति श्लोके प्रयुक्तम् । विजरामिति वा
पाठः कार्यः । अत्र भवद्भजनदामिति सामान्यप्रयोगात् दुग्ध-
ताटिनीविरजामित्यत्र मयूरव्यंसकादिसमास इति रूपकालं-
कारः । तन्मुखेन काञ्चीपुरस्य परमपदत्वरूपणं गम्यत
इत्येकदेशविवर्ती । स च शब्दश्लेषेणार्थश्लेषैश्चानुप्राणित इति
संकरः ॥ ९ ॥
 
मोषर्णसालवलयान्समनुप्रावश्य
कोशानिव त्रिदशनायक कोऽपि धन्यः ।