This page has been fully proofread once and needs a second look.

२७
 
भगवति वासुदेवेऽमलाशयाः ॥' इति । विरजाया: परमपद -

प्राप्तिहेतुत्वम् ' स आगच्छति विरजां नदीं तां मनसैवात्येति'

इति श्रुतम् । तदुत्तरणानन्तरमेव परमपदप्राप्तेस्तस्याः शुद्धिहे-

तुत्वम्, तदुत्तरणानन्तरमेव मध्ये चन्द्रसंवादाद्यर्थं तावत्पर्य -

न्तमनुवृत्तस्य प्राकृतस्य सूक्ष्मदेहस्यापि विलयात्ततिक्रमणान-

न्तरमेव भगवल्लोकं प्रविष्टस्य भगवद्देह दिव्यगन्धरस प्राप्तिरपि

पर्यङ्कविद्यायां श्रुता तं ब्रह्मगन्धः प्रविशति तं ब्रह्मरसः प्रविशति'

इति च । यद्यपि पर्यङ्कविद्यायाम् 'तद्ब्रह्माहाभिधावत मम यशसा

विजरां वा अयं नदीं प्रापन्न वा अयं जरिष्यति' इत्याचं-
यर्चि-
रा
दिमार्गेण विरजानदीसमीपमागतस्य ब्रह्मज्ञस्य प्रत्यागमनार्
थं
पञ्च
शतान्यप्सरसां प्रेषयत: परब्रह्मणो भगवतो वचने विज-
गत

रेति
नदीनाम श्रुतं तथैव तत्र निरुक्तं च., तथापि लोकप्र-
बा

श्वा
दानुसाराद्विरजामिति श्लोके प्रयुक्तम् । विजरामिति वा

पाठः कार्यः । अत्र भवद्भजनदामिति सामान्यप्रयोगात् दुग्ध-

ता
टिनी विरजामित्यत्र मयूरव्यंसकादिसमास इति रूपकालं-

कारः । तन्मुखेन काञ्ची पुरस्य परमपदत्वरूपणं गम्यत

त्येकदेशविवर्ती । स च शब्दश्लेषेणार्थश्लेषैश्चानुप्राणित इति
शं

सं
करः ॥ ९ ॥
 

 
मोर्णमासालवलयान्समनुप्रावश्य

कोशानिव त्रिदशनायक कोऽपि धन्यः ।