This page has not been fully proofread.

२७
 
भगवति वासुदेवेऽमलाशयाः ॥' इति । विरजाया: परमपद -
प्राप्तिहेतुत्वम् ' स आगच्छति विरजां नदीं तां मनसैवात्येति'
इति श्रुतम् । तदुत्तरणानन्तरमेव परमपदप्राप्तेस्तस्याः शुद्धिहे-
तुत्वम, तदुत्तरणानन्तरमेव मध्ये चन्द्रसंवादाद्यर्थं तावत्पर्य -
न्तमनुवृत्तस्य प्राकृतस्य सूक्ष्मदेहस्यापि विलयात्ततिक्रमणान-
न्तरमेव भगवल्लोकं प्रविष्टस्य भगवदेह दिव्यगन्धरस प्राप्तिरपि
पर्यङ्कविद्यायां श्रुता तं ब्रह्मगन्धः प्रविशति तं ब्रह्मरसः प्रविशति'
इति च । यद्यपि पर्यङ्कविद्यायाम् 'तद्ब्रह्माहाभिधावत मम यशसा
विजरां वा अयं नदीं प्रापन्न वा अयं जरिष्यति' इत्याचं-
गदिमार्गेण विरजानदीसमीपमागतस्य ब्रह्मज्ञस्य प्रत्यागमनार्थ
शतान्यप्सरसां प्रेषयत: परब्रह्मणो भगवतो वचने विज-
गत नदीनाम श्रुतं तथैव तत्र निरुक्तं च. तथापि लोकप्र-
बादानुसाराद्विरजामिति के प्रयुक्तम । विजरामिति वा
पाठः कार्यः । अत्र भवद्भजनदामिति सामान्यप्रयोगात् दुग्ध-
टिनी विरजामित्यत्र मयूरव्यंसकादिसमास इति रूपकालं-
कारः । तन्मुखेन काञ्ची पुरस्य परमपदत्वरूपणं गम्यत
त्येकदेशविवर्ती । स च शब्दश्लेषेणार्थश्लेषैश्चानुप्राणित इति
शंकरः ॥ ९ ॥
 
मोवर्णमालवलयान्समनुप्रावश्य
कोशानिव त्रिदशनायक कोऽपि धन्यः ।