This page has been fully proofread once and needs a second look.

संप्राप्य दुग्धत टिनीविरजां विशुद्धाः

सन्तो भवद्भजनदां पदमागतास्ते ।

त्वत्पादतोयतुलसीकुसुमेषु लग्नं
 

गन्धं रसं च गरुडध्वज ते लभन्ते ॥ ९ ॥
 

 
हे गरुडध्वज, भवद्भजनदां त्वयि भक्तिप्रदां विरजापक्षे

भवत्प्राप्तिप्रदां दुग्धतटिनीमेव विरजां संप्राप्य दर्शनस्पर्शन-

पानावगाहनैः पक्षे सूक्ष्मदेहस्यापि विलयेन विशुद्धा निर्मलाः

सन्तः साधवः, · सत्ये साधौ च सच्छब्दः' इति स्मरणात् ।

विरजापक्षे ब्रह्मज्ञाः.
, ’अस्ति ब्रह्मेति चेद्वेद सन्तमेनं ततो

विदुः' इति श्रवणात् । ते तव पदं काञ्चीचीं पक्षे परमं पद-

मागताः प्राप्ताः स·न्तः, त्वत्पादतोयतुलसीकुसुमेषु त्वद-
घि

ङ्घ्रि
पद्मक्षालनजलेषु तदर्चनतुलसीकुसुमेषु च त्वत्सेवावस-

रलब्धेषु लग्नं संक्रान्तं ते तव संबन्धिनं त्वदङ्घ्रिकमलयोः

कर्पूराद्यनुलेपनप्रयुक्तं सहजं च दिव्यं गन्धं रसं च लभन्ते ।

क्षीरसरितो भगवद्भक्तिप्रदत्वं विशुद्धिहेतुत्वं च भागवते वर्णि-

तम् -- 'कलौ खलु भविष्यन्ति नारायणपरायणाः । क्वचित्कक्वचि-

न्महाराज द्रविडेषु च भूरिश: ॥ ताम्रपर्णी नदी यत्न कृत-

माला पयस्विनी। कावेरी च महापुण्या सुप्रती च महानदी ॥

ये पिबन्ति जलं तासां मनुजा मनुजाधिप । प्रायो भक्ता
 
.