This page has not been fully proofread.

संप्राप्य दुग्धत टिनीविरजां विशुद्धाः
सन्तो भवद्भजनदां पदमागतास्ते ।
त्वत्पादतोयतुलसीकुसुमेषु लग्नं
 
गन्धं रसं च गरुडध्वज ते लभन्ते ॥ ९ ॥
 
हे गरुडध्वज, भवद्भजनदां त्वयि भक्तिप्रदां विरजापक्षे
भवत्प्राप्तिप्रदां दुग्धतटिनीमेव विरजां संप्राप्य दर्शनस्पर्शन-
पानावगाहनैः पक्षे सूक्ष्मदेहस्यापि विलयेन विशुद्धा निर्मलाः
सन्तः साधवः, · सत्ये साधौ च सच्छब्दः' इति स्मरणात् ।
विरजापक्षे ब्रह्मज्ञाः.
अस्ति ब्रह्मेति चेद्वेद सन्तमेनं ततो
विदुः' इति श्रवणात् । ते तव पदं काञ्ची पक्षे परमं पद-
मागताः प्राप्ताः स·तः, त्वत्पादतोयतुलसीकुसुमेषु त्वद-
घिपद्मक्षालनजलेषु तदर्चनतुलसीकुसुमेषु च त्वत्सेवावस-
रलब्धेषु लग्नं संक्रान्तं ते तव संबन्धिनं त्वदङ्घ्रिकमलयोः
कर्पूराद्यनुलेपनप्रयुक्तं सहजं च दिव्यं गन्धं रसं च लभन्ते ।
क्षीरसरितो भगवद्भक्तिप्रदत्वं विशुद्धिहेतुत्वं च भागवते वर्णि-
तम्- 'कलौ खलु भविष्यन्ति नारायणपरायणाः । क्वचित्कचि-
न्महाराज द्रविडेषु च भूरिश: ॥ ताम्रपर्णी नदी यत्न कृत-
माला पयस्विनी। कावेरी च महापुण्या सुप्रती च महानदी ॥
ये पिबन्ति जलं तासां मनुजा मनुजाधिप । प्रायो भक्ता
 
.