This page has been fully proofread once and needs a second look.

विमानं हिरण्मयगृहम् । तस्य मध्ये महिषीयुतं वक्षःस्थलस्थितया
श्रिया वा पार्श्वद्वयवर्तिनीभ्यां श्रीभूमिभ्यां वा युतं त्वां जनो यः
कश्चिदपि दृष्ट्वा पुनः भवान्तरार्तिं जन्मान्तरक्लेशं नैति न
प्राप्नोति । अत्रापराजितादिशब्दशक्त्या भगवद्भक्तैस्तं प्रपन्नै -
रर्चिरादिमार्गेणाप्राप्येति, ’ओं नमो नारायणाय' इति
मन्त्रोपासको वैकुण्ठं भगवल्लोकं गमिष्यतीति नारायणोपनि-
षदि ’ वैकुण्ठे तु परे लोके श्रिया सार्धं जगत्पतिः । आस्ते
नित्यमचिन्त्यात्मा भक्तैर्भागवतैः सह ॥' इत्यादिपुराणवचनेषु
च प्रख्यातवैकुण्ठनामकपरमपदवद्भगवद्दर्शनमपुनरावृत्तिकारण-
मित्यपि प्रतीयते। श्रूयते हि च्छन्दोगोपनिषदि परमपदसंस्था -
नम् -- 'अरश्च ह वै ण्यश्चार्णवौ ब्रह्मलोके तृतीयस्यामितो
दिवि तदैरंमदीयं सरस्तदश्वत्थः सोमसवनस्तदुपराजिता पूर्व-
क्षणः प्रभुविमितं हिरण्मयम्' इति । एवं चात्र सतामुक्तरूपे
परमपदे भगवद्दर्शनं यथा अपुनरावृत्तिकारणमेवमिहापीत्यप-
राजितशब्दश्लेषेण अश्वत्थाद्यर्थश्लेषेण च प्रतीतेः शब्दा-
र्थशक्तिमूल उपमालंकारध्वनिः । ’यत्रार्थिकोऽपि शब्दा-
नामनेकत्र समन्वयः । विदग्धहृदयाह्लादी सोऽर्थश्लेषः
प्रकीर्त्यते ॥ दिगम्बरं गतव्रीडं जटिलं धूलिधूसरम् । पुण्यही -
ना न पश्यन्ति गङ्गाधरमिवात्मजम ॥’ इत्यर्थश्लोषस्य लक्षणो-
दाहरणे ॥ ८ ॥
 
6