This page has been fully proofread once and needs a second look.

२४
 
हे अमेयगुण असंख्येयकल्याणगुण, अपराजितायाम्

अपराभिः पुरीभिरजितायाम् । सर्वपुर्यातयतिशायिन्यामिति यावत् ।

तथोक्तं वामनपुराणे -तेजस्विनां यद्वदिहार्क उक्तो नारीषु

रम्भाऽऽश्रमिणां गृहस्थ: । काञ्ची तथा श्रेष्ठतया पुरीणां देशेषु

सर्वेषु च मध्यदेशः ॥' इति । सनत्कुमारसंहितायाम्-

श्रीमत्काशी पुरीवासाद्वासः काजीञ्चीपुरे वरः । पुराणामुत्तमा

द्वारैः शुशुभे द्वारकोपमा ॥ प्रासादैर्गोपुरैः शुभैःभ्रैः प्राकारैरपि

सूचकैः । विष्णोः प्रियालयैस्तीर्थैरयोध्येव पुरातनी ॥ योजन-

त्रयविस्तीर्णा वासुदेवप्रियालया । नागपर्यङ्कशय्यायां यत्र शेते

हरिः स्वयम् । नाशयञ्जगतां पापं काष्ठां गतमपि प्रभुः ॥' इति ।

अपरैर्विमतैरजितायामिति वा । अस्यां पुरि काञ्चीपुर्यायां दिव्य-

सरःसमीपे ' पञ्च तीर्थानि सन्त्यत् नागाद्यैर्नामभिः शुभैः । अन-

न्ततीर्थं ब्राह्मं च हेमाम्भोजसरस्तथा ॥ अग्नितार्थतीर्थं कुशाख्यं च

कीर्तितानि मनीषिभिः । एतेषामपि सर्वेषां श्रेष्ठं नागाह्वयं

सरः ॥' इति पुराणप्रसिद्धमनन्तनामाङ्कितं सरो दिव्यसरः तस्य

समीपे । कीदृशे ? अश्वत्थवर्यजुषि अनन्तसर: प्राग्भागे

श्रीमानश्वत्थवृक्षः प्रसिद्धः तदलंकृते, मध्येहिरण्मयगृहम् ।
 

पुण्यकोटीति विख्यातं विमानं पुण्यवर्धनम् । वेदिमध्यात्स -

मुत्तस्थौ तस्य मूर्तिः स्वयं पुरा ॥ तन्मध्ये भगवान्विष्णुर-

भिव्यक्तो हरिः स्वयम् ॥' इति पुराणप्रसिद्धं पुण्यकोटि-