This page has not been fully proofread.

२४
 
हे अमेयगुण असंख्येयकल्याणगुण, अपराजितायाम्
अपराभिः पुरीभिरजितायाम् । सर्वपुर्यातशायिन्यामिति यावत् ।
तथोक्तं वामनपुराणे – तेजस्विनां यद्वदिहार्क उक्तो नारीषु
रम्भाऽऽश्रमिणां गृहस्थ: । काञ्ची तथा श्रेष्ठतया पुरीणां देशेषु
सर्वेषु च मध्यदेशः ॥' इति । सनत्कुमारसंहितायाम्-
श्रीमत्काशी पुरीवासाद्वासः काजीपुरे वरः । पुराणामुत्तमा
द्वारैः शुशुभे द्वारकोपमा ॥ प्रासादैर्गोपुरैः शुभैः प्राकारैरपि
सूचकैः । विष्णोः प्रियालयैस्तीर्थैरयोध्येव पुरातनी ॥ योजन-
त्रयविस्तीर्णा वासुदेवप्रियालया । नागपर्यङ्कशय्यायां यत्र शेते
हरिः स्वयम् । नाशयञ्जगतां पापं काष्ठां गतमपि प्रभुः ॥' इति ।
अपरैर्विमतैरजितायामिति वा । अस्यां पुरि काञ्चीपुर्या दिव्य-
सरःसमीपे ' पञ्च तीर्थानि सन्त्यत्व नागाद्यैर्नामभिः शुभैः । अन-
न्ततीर्थ ब्राह्मं च हेमाम्भोजसरस्तथा ॥ अग्नितार्थ कुशाख्यं च
कीर्तितानि मनीषिभिः । एतेषामपि सर्वेषां श्रेष्ठ नागाह्वयं
सरः ॥' इति पुराणप्रसिद्धमनन्तनामाङ्कितं सरो दिव्यसरः तस्य
समीपे । कीदृशे ? अश्वत्थवर्यजुषि अनन्तसर: प्राग्भागे
श्रीमानश्वत्थवृक्षः प्रसिद्धः तदलंकृते, मध्येहिरण्मयगृहम् ।
 
पुण्यकोटीति विख्यातं विमानं पुण्यवर्धनम् । वेदिमध्यात्स -
मुत्तस्थौ तस्य मूर्तिः स्वयं पुरा ॥ तन्मध्ये भगवान्विष्णुर-
भिव्यक्तो हरिः स्वयम् ॥' इति पुराणप्रसिद्धं पुण्यकोटि-