This page has been fully proofread once and needs a second look.

वेगवत्याश्च समागम इति सर्वाविरोध: कल्पनीय: । अत्र
काञ्चीस्थानस्यातिदुर्लभस्थानत्रयकुतुकनिवर्तकत्वोक्त्या किंचि
त्करणेनाशक्यवस्त्वन्तरकरणाद्विशेषालंकारविशेषः, श्वेतद्वी-
पाद्येकैकमपेक्ष्याधिक्यरूपो व्यतिरेकालंकारश्चेति तयोरेक-
वाचकानुप्रवेशलक्षण: संकरः । तयोश्च सिन्ध्वाद्यभङ्गश्लेषेण
महारवीति सभङ्गश्लेषेण अधःकृतेत्यतिशयोक्त्या चाङ्गाङ्गि-
भावसंकरः । यद्यपि श्रीविष्णुपुराणे-- ऊर्ध्वोत्तरमृषिभ्यस्तु
ध्रुवो यत्र व्यवस्थितः । एतद्विष्णुपदं दिव्यं तृतीयं व्योम्नि
भास्वरम् ॥ निर्धूतदोषपङ्कानां यतीनां संयतात्मनाम् । स्थानं
तत्परमं विप्र पुण्यपापपरिक्षये । अपुण्यपुण्योपरमे क्षीणाशे-
पार्तिहेतवः । यत्र गत्वा न शोचन्ति तद्विष्णोः परमं पदम् ॥ '
इति स्वर्लोकस्योपरितनभूमिभेदरूपं ध्रुवपदं तृतीयं वैष्णवं परमं
पदमिति वर्णितम् ,तथापि ब्रह्मलोकाद्धस्तनं तदिह न गृह्यते,
किं तूपरितनमेवेति द्रष्टव्यम् ॥ ७ ॥
 
अस्याममेयगुण पुर्यपराजिताया-
मश्वत्थवर्यजुषि दिव्यसरः समीपे ।
मध्येह्निरण्मयगृहं महिषीयुतं त्वां
दृष्ट्वा जनो न पुनरेति भवान्तरार्तिम् ॥