This page has been fully proofread once and needs a second look.

२३
 
वेगवत्याश्च समागम इति सर्वाविरोध: कल्पनीय: । अत्र
 
किंचि
 

काञ्चीस्थानस्यातिदुर्लभस्थानत्रयकुतुकनिवर्तकत्वोक्त्या
किंचि
त्करणेनाशक्यवस्त्वन्तरकरणाद्विशेषालंकारविशेषः, श्वेतद्वी-

पाद्येकैकमपेक्ष्याधिक्यरूपो व्यतिरेकालंकारश्चेति तयोरेक-

वाचकानुप्रवेशलक्षण: संकरः । तयोश्च सिन्ध्वाद्यभङ्गश्लेषेण

महारवीति सभङ्गश्लेषेण अधः कृतेत्यतिशयोक्त्या चाङ्गाङ्गि-

भावसंकरः । यद्यपि श्रीविष्णुपुराणे-- ऊर्ध्वोत्तरमृषिभ्यस्तु

ध्रुवो यत्र व्यवस्थितः । एतद्विष्णुपदं दिव्यं तृतीयं व्योम्नि

भास्वरम् ॥ निर्धूतदोषपङ्कानां यतीनां संयतात्मनाम् । स्थानं

तत्परमं विप्र पुण्यपापपरिक्षये । अपुण्यपुण्योपरमे क्षीणाशे-

पार्तिहेतवः । यत्र गत्वा न शोचन्ति तद्विष्णोः परमं पदम् ॥ '

इति स्वर्लोकस्योपरितनभूमिभेदरूपं ध्रुवपदं तृतीयं वैष्णवं परमं

पदमिति वर्णितम् ,तथापि ब्रह्मलोकाद्धस्तनं तदिह न गृह्यते,

किं तूपरितनमेवेति द्रष्टव्यम् ॥ ७ ॥
 

 
अस्याममेगुण पुर्यपराजिताया-

मश्वत्थवर्जुषि दिव्यरः समीपे ।

मध्ये हिह्निरण्मयगृहं महिषीयुतं त्वां

दृष्ट्वा जनो न पुनरेति भवान्तरार्तिम् ॥
 
-