This page has not been fully proofread.

२२
 
.
 
नहीं च विपुलावर्ता पुलिनश्रेणिभूषिताम् । क्षीरसंकाशसलिलां
पयोधारामिति श्रुताम् ॥' इति । सैषा क्षीरनद्येव भवितुम-
र्हति, तत्र पय:संबन्धिनो नद्यन्तरस्य प्रसिद्धयभावात् । न
च विन्ध्याइक्षिणभाग एव क्षीरनदी वर्णिता न तु विन्ध्य
इति शङ्कनीयम् . तस्य दक्षिणसमुद्रतीरपर्यन्तव्याप्तेः श्रीरा-
मायणे दर्शितत्वात् । तत्र हि - एष विन्ध्यो गिरिः श्रीमा-
नानाद्रुमलतायुतः । एष प्रस्रवण: शैल : सागरोऽयं महो-
दधिः ॥' इति हनूमदादीन्प्रति मेरुसावर्णितनयावचनम् ।
तदनन्तरम् ततस्ते ददृशुर्घोरं सागरं वरुणालयम्' इति
तल स्थितानामेव तेषां दक्षिणसमुद्रदर्शनं दार्शतम् - ते
विन्ध्यस्य गिरेः पादे संप्रपुष्पितपादपे । उपविश्य महा-
भागाश्चिन्तामापेदिरे तदा ॥' इति तत्र तेषामुपवेशनं
तत्र समागतस्य संपाते: सूर्यसामीप्यादग्धपक्षः स्वयमिदैव
पतित इति कंचित्कालमनवहितः स्थितोऽस्मीत्युक्तवतः
'हृष्टपक्षिगणाकर्णि: कंदरान्तरकूटवान् । दक्षिणस्योदधेस्तीरे
विन्ध्योऽयमिति निश्चितः ॥' इति । भ्रातुर्जटायोर्मरणं श्रुतवता
तेन जटायुमुद्दिश्य निवापाञ्जलिदानं समुद्र एव कृतमिति चो-
क्तम् । तदनन्तरवचनं च दर्शितम् । एवं श्रीवराहेण पृथिव्युद्धर-
णानन्तरं क्षीरसमानवर्णतया सृष्टत्वेन क्षीरनदीति लब्धसंज्ञा-
यामनादिसिद्धायामेव नद्यां कामधेनुप्रभवनद्याः सरस्वतीरूपाया