This page has been fully proofread once and needs a second look.

ऽऽपगा ॥ अन्तरालं तयोर्मध्यमन्तर्वेदीति विश्रुतम् । काञ्ची-
स्थानमिदं विद्धि ख्यातं द्वादशनामभिः' इति च । वामन-
पुराणे तु–' सरस्वती पञ्चरूपा कालिन्दी सहिरण्वती' इत्यु-
पक्रम्य ' सरयूश्च समालक्ष्या हिमवत्पादनिःस्रुता' इत्यन्तेन
हिमवत्पादप्रभवा नदीः कीर्तयित्वा ततो विन्ध्यपादप्रभवाणा-
मपि कीर्तनानन्तरम् ' गोदावरी भीमरथी कृष्णवेणी सर-
स्वती' इत्युपक्रम्य एताश्चापि महानद्यः सह्यमूलाद्विनि-
र्गताः' इत्यन्तेन सह्योद्भवादिनामसंकीर्तनेऽपि सरस्वती परिग-
णिता । सा वेगवती सैव क्षीरनदीति च वामनपुराण एव प्रदेशा-
न्तरे स्पष्टीकृतम्--'सरस्वती ततः सह्यमारुह्याशु महानदी । महा-
प्रलयसंकाशा प्रायाद्वेगेन भारती ॥ नाम्ना वेगवती सेयं
भूलोकेऽतीव विश्रुता । प्रागुदक्प्रवहा वेगात्प्रययौ सागरं
प्रति ॥ तां तु क्षीरनदीं प्राहुः प्रसन्नसलिलोद्वहाम् ॥' इति ।
कालभेदेन प्रवृत्तयोरुभयोरेकीभावान्न विरोधः । हरिवंशे
वराहप्रादुर्भावे श्रीवराहरूपेण भगवता पृथिव्युद्धरणानन्तरं
तस्यां चतसृष्वपि दिक्षु बहवः शैलाः सृष्टाः । एकैकस्यां
दिशि एकैकशैलप्रभवा वसुधारा पयोधारा घृतधारा मधुधा-
गेति चतस्रो नद्यश्च विसृष्टा इत्युक्तम् । तत्र दक्षिणस्यां दिशि
विन्ध्ये सृष्टा पयोधाराख्या । 'मेदिन्यां कृतवान्देवः प्रति-
मेरुमिवाचलम् । सहस्रशिरसं विन्ध्यं नानाद्रुमलतायुतम् ॥