This page has been fully proofread once and needs a second look.

२०
 
.
 
ण्मयः पुरुषो दृश्यते' इत्यादिश्रुतौ ध्येयः सदा सवितृमण्डलम-

ध्यवर्ती नारायणः -- इत्यादिपुराणवचनेषु च प्रसिद्धम् ।

ब्रह्मसदनात्परं भगवतः परमपदमिति च तेषु प्रसिद्धम् । यथा

तावत्कूर्मपुराणे -- तव नारायणस्यापि भवनं ब्रह्मणः

परम् । शेते तत्र हरिः श्रीमान्मायी मायामयः परः ॥ स

विष्णुलोक: कथितः पुनरावृत्तिवर्जितः । यान्ति तत्र महा-

त्मानो ये प्रपन्ना जनार्दनम् ॥ ऊर्ध्वं तद्ब्रह्मसदनात्पुरं ज्योति-

र्मयं शुभम् ॥' इति । काञ्चीसमीपे क्षीरनदी ब्रह्माण्डपुराणे

दर्शिता -पुरा कदाचिद्वासिष्ठे कामधेनुस्तपोवने । अवत्सा

पयसां पूरं होमार्थं दुहती स्वयम् । तस्थौ शुष्यद्भिरूधस्यैः

संप्राप्ता परमं श्रमम् ॥ तस्या विकृतिमालोक्य वसिष्ठस्ताम-

पोहितुम् । विधाय कूर्चं मन्त्रेण वत्सरूपं पुरोऽदिशत् ॥ म

कूर्च: सहसा भूत्वा वत्सो धेनुमुपाययौ । सा वत्सलैव वत्सं

तमङ्गे धेनुर्लिलेह च ॥ प्रीतिकण्ट कितैरङ्गैः प्रस्तुतस्तनम-

ण्डला । प्रक्षरद्भिस्तदा धेनुर्महौघैः पयसां निजैः । उल्लङ्घि-

तोभयतटामुपादयदापगाम् ॥ एषा काञ्चीपुरं प्राप्य कलशा-

र्णवकाङ्क्षिणी । अगादालोलशैवाला स्खलन्ती च पदे पदे ॥'

इति, 'अस्ति वासिष्ठगोक्षीरधाराकृतमहापगा। क्षीरापगेति

विख्याता नाम्ना तेन जगत्त्रये ॥ तस्या दक्षिणतः काञ्च्या

नातिदूरे तरङ्गिणी । स्कन्दाभिषेकसंभूता स्कान्दीति प्रथिता-
.