This page has not been fully proofread.

२०
 
.
 
ण्मयः पुरुषो दृश्यते' इत्यादिश्रुतौ ध्येयः सदा सवितृमण्डलम-
ध्यवर्ती नारायणः - इत्यादिपुराणवचनेषु च प्रसिद्धम् ।
ब्रह्मसदनात्परं भगवतः परमपदमिति च तेषु प्रसिद्धम् । यथा
तावत्कूर्मपुराणे - तव नारायणस्यापि भवनं ब्रह्मणः
परम् । शेते तत्र हरिः श्रीमान्मायी मायामयः परः ॥ स
विष्णुलोक: कथितः पुनरावृत्तिवर्जितः । यान्ति तत्र महा-
त्मानो ये प्रपन्ना जनार्दनम् ॥ ऊर्ध्वं तद्ब्रह्मसदनात्पुरं ज्योति-
र्मयं शुभम् ॥' इति । काञ्चीसमीपे क्षीरनदी ब्रह्माण्डपुराणे
दर्शिता — पुरा कदाचिद्वासिष्ठे कामधेनुस्तपोवने । अवत्सा
पयसां पूरं होमार्थं दुहती स्वयम् । तस्थौ शुष्यद्भिरूधस्यैः
संप्राप्ता परमं श्रमम् ॥ तस्या विकृतिमालोक्य वसिष्ठस्ताम-
पोहितुम् । विधाय कूर्चं मन्त्रेण वत्सरूपं पुरोऽदिशत् ॥ म
कूर्च: सहसा भूत्वा वत्सो धेनुमुपाययौ । सा वत्सलैव वत्सं
तमङ्गे धेनुर्लिलेह च ॥ प्रीतिकण्ट कितैरङ्गैः प्रस्तुतस्तनम-
ण्डला । प्रक्षरद्भिस्तदा धेनुर्महौघैः पयसां निजैः । उल्लङ्घि-
तोभयतटामुपादयदापगाम् ॥ एषा काञ्चीपुरं प्राप्य कलशा-
र्णवकाङ्क्षिणी । अगादालोलशैवाला स्खलन्ती च पदे पदे ॥'
इति, 'अस्ति वासिष्ठगोक्षीरधाराकृतमहापगा। क्षीरापगेति
विख्याता नाम्ना तेन जगत्त्रये ॥ तस्या दक्षिणतः काञ्च्या
नातिदूरे तरङ्गिणी । स्कन्दाभिषेकसंभूता स्कान्दीति प्रथिता-
.