This page has been fully proofread once and needs a second look.

१९
 
मा
सादैरुपशोभितम् ॥' इत्यादिना भगवतः पुरं वर्णयित्वा

तस्य मध्येऽतितेजिष्ठमुच्चप्राकारतोरणम् । स्थानं तद्वैष्णवं

दिव्यं योगिनामपि दुर्लभम् ॥' इति तत्र भगवतः स्थान-

मुक्त्वा तन्मध्ये भगवानेकः पुण्डरीकदलश्रुद्युतिः । शेतेऽशे-

पजगत्सूति: शेषाहिशयने हरिः ॥ विचिन्त्यमानो योगीन्द्रैः

सनन्दनपुरोगमैः । आत्मानन्दामृतं पीत्वा परस्तात्तमसः

परम् ॥ स पीतवसनोऽनन्तो महामायो महाभुजः । क्षीरोदक-

न्यया नित्यं गृहीतचरणद्वयः ॥ सा च देवी जगद्वन्द्या पाद-

मूले हरिप्रिया । समास्ते तन्मना नित्यं पीत्वा नारायणामृतम् ॥
न तत्वा

न तत्रा
धार्मिका यान्ति न च देवान्तराश्रयाः । वैकुण्ठं नाम

तत्स्थानं त्रिदशैरपि वन्दितम् ॥ न मेऽत्र भवति प्रज्ञा

कृत्स्नशस्तन्निरूपणे । एतावच्छक्यते वक्तुं नारायणपुरं हि

तत् ॥ स एव परमं ब्रह्म वासुदेवः सनातनः । शेते

नारायणः श्रीमान्मायया मोहयञ्जगत् ॥' इति तत्र

भगवतो नित्य संनिवाधानमुक्तम् त्रयीमयस्य आदित्यो

वा एष एतन्मण्डलम्' इत्यादित्यमण्डलार्चिः पुरुषस्य वेद-

श्रयरूपतयाऽऽम्नातस्य नवयोजनलाहस्रो विस्तारो मण्ड-

लस्य तु । दशयोजनसाहस्रो विस्तारायामतो रथः ॥' इति वायु-

पुराणोक्तेर्नवयोजन सहस्रप्रमाणतया महतो मण्डलस्य सार्चि:-

पुरुषस्य मध्ये भगवतोऽवस्थानम् ' य एषोऽन्तरादित्ये हिर-
i
 
C