This page has not been fully proofread.

१९
 
मादैरुपशोभितम् ॥' इत्यादिना भगवतः पुरं वर्णयित्वा
• तस्य मध्येऽतितेजिष्ठमुच्चप्राकारतोरणम् । स्थानं तद्वैष्णवं
दिव्यं योगिनामपि दुर्लभम् ॥' इति तत्र भगवतः स्थान-
मुक्त्वा तन्मध्ये भगवानेकः पुण्डरीकदलश्रुतिः । शेतेऽशे-
पजगत्सूति: शेषाहिशयने हरिः ॥ विचिन्त्यमानो योगीन्द्रैः
सनन्दनपुरोगमैः । आत्मानन्दामृतं पीत्वा परस्तात्तमसः
परम् ॥ स पीतवसनोऽनन्तो महामायो महाभुजः । क्षीरोदक-
न्यया नित्यं गृहीतचरणद्वयः ॥ साच देवी जगद्वन्द्या पाद-
मूले हरिप्रिया । समास्ते तन्मना नित्यं पीत्वा नारायणामृतम् ॥
न तत्वाधार्मिका यान्ति न च देवान्तराश्रयाः । वैकुण्ठं नाम
तत्स्थानं त्रिदशैरपि वन्दितम् ॥ न मेऽत्र भवति प्रज्ञा
कृत्स्नशस्तन्निरूपणे । एतावच्छक्यते वक्तुं नारायणपुरं हि
तत् ॥ स एव परमं ब्रह्म वासुदेवः सनातनः । शेते
नारायणः श्रीमान्मायया मोहयञ्जगत् ॥' इति तत्र
भगवतो नित्य संनिवानमुक्तम् त्रयीमयस्य आदित्यो
वा एष एतन्मण्डलम्' इत्यादित्यमण्डलार्चिः पुरुषस्य वेद-
श्रयरूपतयाऽऽम्नातस्य नवयोजनलाहस्रो विस्तारो मण्ड-
लस्य तु । दशयोजनसाहस्रो विस्तारायामतो रथः ॥' इति वायु-
पुराणोक्तेर्नवयोजन सहस्रप्रमाणतया महतो मण्डलस्य सार्चि:-
पुरुषस्य मध्ये भगवतोऽवस्थानम् ' य एषोऽन्तरादित्ये हिर-
i
 
C