This page has been fully proofread once and needs a second look.

१८
 
अस्यां भवन्तमभितःस्थित दुग्धमिन्धौ

मध्ये त्रयीमयमहारविमण्डलस्य ।

पश्यन्नधः कृतचतुर्मुख विष्टपायां

धामत्रवे ऽपि कुतुकं विजहाति विद्वान् ॥
 

 
त्रयीमयमहारविमण्डलस्य त्रयीमयो वेदत्यप्रचुरो महा-

नारवो घोषोऽस्मिन्निति तथोक्तम्, तथाभूतस्य मण्डलस्य

स्वराज्ये सर्वाणि वेदशास्त्राणि शिवनियोगात्प्रतिष्ठापितवतस्तु -

ण्डीराख्यस्य नृपतेर्नाम्नाङ्कितस्य देशस्य मध्ये अभितः-

स्थितदुग्धसिन्धौ अन्तिकप्रवहत्क्षीरसरिति समीपोभयतः

शीघ्रसाकल्याभिमुखेऽभितः' इत्यभिधानकोश: अधः कृत-

चतुर्मुखविष्टपायां माहात्म्येन ब्रह्मलोकातिशायिन्याम् अस्यां

काञ्च्यां भवन्तं पश्यन्विद्वान् धामत्रयेऽपि श्वेतद्वीपरविम-

ण्डलपरमपदरूपे भगवतः स्थानत्रयेऽपि कुतुकं दिदृक्षां वि-

जहाति, अस्या एव स्थानत्रयगुणयुक्तत्वात् । तथा हि-

अभितःस्थितदुग्धसिन्धावित्यत्र श्वेतद्वीपगुण उक्तः । स हि

क्षीरोदमध्ये भगवतो दिव्यस्थानविशेष इति प्रपञ्चितं कूर्म-

पुराणे - 'शाकद्वीपं समावृत्य क्षीरोदः सागरः स्थितः ।

श्वेतद्वीपश्च तन्मध्ये नारायणसमाश्रयः ॥' इत्युपक्रम्य ' तत्र

नारायणस्याद्यं दुर्गमं दुरतिक्रमम् । नारायणं नाम पुरं प्रा-
.
 
.