This page has not been fully proofread.

१८
 
अस्यां भवन्तमभितःस्थित दुग्धमिन्धौ
मध्ये त्रयीमयमहारविमण्डलस्य ।
पश्यन्नधः कृतचतुर्मुख विष्टपायां
धामत्रवेऽपि कुतुकं विजहाति विद्वान् ॥
 
त्रयीमयमहारविमण्डलस्य त्रयीमयो वेदत्वयप्रचुरो महा-
नारवो घोषोऽस्मिन्निति तथोक्तम् तथाभूतस्य मण्डलस्य
स्वराज्ये सर्वाणि वेदशास्त्राणि शिवनियोगात्प्रतिष्ठापितवतस्तु -
ण्डीराख्यस्य नृपतेर्नाम्नाङ्कितस्य देशस्य मध्ये अभितः-
स्थितदुग्धसिन्धौ अन्तिकप्रवहत्क्षीरसरिति समीपोभयतः
शीघ्रसाकल्याभिमुखेऽभितः' इत्यभिधानकोश: अधः कृत-
चतुर्मुखविष्टपायां माहात्म्येन ब्रह्मलोकातिशायिन्याम् अस्यां
काञ्च्यां भवन्तं पश्यन्विद्वान् धामत्रयेऽपि श्वेतद्वीपरविम-
ण्डलपरमपदरूपे भगवतः स्थानत्रयेऽपि कुतुकं दिदृक्षां वि-
जहाति, अस्या एव स्थानवयगुणयुक्तत्वात् । तथा हि-
अभितःस्थितदुग्धसिन्धावित्यत्र श्वेतद्वीपगुण उक्तः । स हि
क्षीरोदमध्ये भगवतो दिव्यस्थानविशेष इति प्रपञ्चतं कूर्म-
पुराणे - 'शाकद्वीपं समावृत्य क्षीरोदः सागरः स्थितः ।
श्वेतद्वीपश्च तन्मध्ये नारायणसमाश्रयः ॥' इत्युपक्रम्य ' तत्र
नारायणस्याद्यं दुर्गमं दुरतिक्रमम् । नारायणं नाम पुरं प्रा-
.
 
.