This page has been fully proofread once and needs a second look.

परवनिताजारपुरुष समभिव्याहाराभावेन तद्वृत्तान्तमात्र समा-
समा-
रोप इति तत्र समासोक्तिरस्तु । इह तु शुभविग्रहचिन्तार-

त्न
शब्दयोः सामानाधिकरण्यात्प्रस्तुते अप्रस्तुतरूप समारोपो-

Sस्तीति तदानुगुण्याद्विश्वंभरामित्यत्रापि नायिकातादृद्रूप्यस्यैव

गम्यमानस्य समारोप इत्येकदेशविवर्तिरूपकमेव युक्तम् 'के-

लीतल्पं भुवो बाहुशिखरं वेङ्कटप्रभोः' इत्यत्रेवेति सर्वमनव-

द्
यम् । काशीखण्डे काञ्ची भगवत्प्रसादादैश्वर्य समृद्धिमती व
गिता
-
र्णिता -
- ' एवमाराध्य भूतेशं महाकालं ततो द्विजः । जगाम

नगरी काश्र्वींरीं काञ्चीं कान्तां त्रिभुवनादपि ॥ लक्ष्मीकान्तः स्वयं

साक्षाज्जन्तूंस्तत्र निवासिनः । श्रीकान्तानेव कुरुते परत्रेह

च निश्चितम् ॥' इति । तदर्थस्मारणाय समृद्धिमत्ता वर्णिता ।

तस्य चान्तर्वेदिरूपायां काञ्च्यां भगवत्प्राधान्यप्रत्यायकस्य

स्मारणं नायकरत्त्वरूपणनिर्वाहार्थमिति । एवमनर्मणिकाञ्चन-

धामचित्रेति विशेषणं साभिप्रायम् । अतः परिकरालंकारः ।

तत्रैव समृद्धिमद्स्तुवर्णनरूप उदात्तालंकार इति तयोरेकवा-

चकानुप्रवेशलक्षण: संकर: । रूपकेण च तयोरङ्गाङ्गिभावेन
मं

सं
करः । उदात्तं वर्णनं यत्र समृद्धियुतवस्तुनः' इति

तल्लक्षणम् । रत्नस्तम्भेषु संक्रान्तैः प्रतिबिम्बशतैर्वृतः ।

ज्ञातः कथंचन मया सभायां वेङ्कटप्रभुः ॥ इति तस्यो-
मा

दा
हरणम् ॥ ६ ॥
 
1
 
V. 2