This page has not been fully proofread.

परवनिताजारपुरुष समभिव्याहाराभावेन तद्वृत्तान्तमात्र समा-
रोप इति तत्र समासोक्तिरस्तु । इह तु शुभविग्रहचिन्तार-
मशब्दयोः सामानाधिकरण्यात्प्रस्तुते अप्रस्तुतरूप समारोपो-
Sस्तीति तदानुगुण्याद्विश्वंभरामित्यत्रापि नायिकातादृप्यस्यैव
गम्यमानस्य समारोप इत्येकदेशविवर्तिरूपकमेव युक्तम् 'के-
लीतल्पं भुवो बाहुशिखरं वेङ्कटप्रभोः' इत्यत्रेवेति सर्वमनव-
यम् । काशीखण्डे • काञ्ची भगवत्प्रसादादैश्वर्य समृद्धिमती व
गिता - ' एवमाराध्य भूतेशं महाकालं ततो द्विजः । जगाम
नगरी काश्र्वीं कान्तां त्रिभुवनादपि ॥ लक्ष्मीकान्तः स्वयं
साक्षाज्जन्तूंस्तत्र निवासिनः । श्रीकान्तानेव कुरुते परत्रेह
च निश्चितम् ॥' इति । तदर्थस्मारणाय समृद्धिमत्ता वर्णिता ।
तस्य चान्तर्वेदिरूपायां काञ्च्यां भगवत्प्राधान्यप्रत्यायकस्य
स्मारणं नायकरत्रत्वरूपणनिर्वाहार्थमिति । एवमनर्धमणिकाञ्चन-
धामचित्रेति विशेषणं साभिप्रायम् । अतः परिकरालंकारः ।
तत्रैव समृद्धिमद्रस्तुवर्णनरूप उदात्तालंकार इति तयोरेकवा-
चकानुप्रवेशलक्षण: संकर: । रूपकेण च तयोरङ्गाङ्गिभावेन
मंकरः । उदात्तं वर्णनं यत्र समृद्धियुतवस्तुनः' इति
तल्लक्षणम् । रत्नस्तम्भेषु संक्रान्तैः प्रतिबिम्बशतैर्वृतः ।
ज्ञातः कथंचन मया सभायां वेङ्कटप्रभुः ॥ इति तस्यो-
माहरणम् ॥ ६ ॥
 
1
 
V. 2