This page has been fully proofread once and needs a second look.

१६
 
इति केशवः ॥' तरुणीजनमोहनत्वेन भक्तजनभोगमोक्षप्रद-

त्वेन भगवद्विग्रहो वर्णनीय इष्यत... इति तदनुसारेणार्थवयप -
त्रयप -
रिग्रहः । राजतितराम् । काञ्चीपुरी मणिगृहैर्विराजमाना

तव दिव्याविग्रहणात्यर्थं राजतत्यिर्थः । अत्र काञ्चीति मेखला-

व्यभिधीयते । सा मणिकाञ्चनानां धामभिः प्रभाभिश्चित्रा ।

विश्वंभरामिति स्त्रीलिङ्गांद्गम्यमानामुत्तमनायिकां विभूषयन्ती ।

गजाद्रिशिखर इति शिखरशब्देन प्रतीयमाने नायकरत्ननिधा-

नोचिते मध्यदेशे भासमानेन भगवद्विग्रहेणैव दिव्यमणिना

राजतितरामिति । अत्र शुभविप्ग्रहेण चिन्तारत्नेनेति व्यस्त -

रूपकम् । तदुत्थापितं काञ्चीधामशब्दयोः श्लिष्टरूपकम् ।

एवमेकदेशे वाच्यतया वर्तमानैर्व्यस्तरिलश्लिष्टरूपकैर्विश्वंभराया
 

मेखलाभूषणीयोत्तमस्त्रीत्वं गजाद्रिशिखरस्य मेखलानायकरत्न -

निधानार्हमध्यदेशत्वं च गम्यत इत्येकदेशविवर्तिरूपकालं-

कारः । एकदेशे विशेषेण वाच्यतया वर्तते अन्यत्र गम्यतये-

त्येवमेकदेशविवर्तित्वमिह रूपकस्य । न च ' अयमैन्द्रीमुखं

पश्य रक्तश्चुम्बति चन्द्रमाः' इत्यत्रेव विशेषणसाम्यादप्रस्तु-

तस्य गम्यत्वे समासोक्तिरिति लक्षिता समासोक्तिरिह शङ्क-

नीया । यत् प्रस्तुते अप्रस्तुतरूपसमारोपस्तत्र रूपकम्, यत्

प्रस्तुते अप्रस्तुतवृत्तान्तमात्रसमारोपस्तत्र न रूपकं किं तु समा-

सोक्तिरिति हि रूपकसमासोक्त्योर्भेदः । ततश्च ऐन्द्रीचन्द्रयोः