This page has been fully proofread once and needs a second look.

हे विबुधनाथ देवराज, महार्घाणां महामूल्यानां मणिका-
ञ्चनानामुत्तमरत्नानां शुद्धसुवर्णस्य च संबन्धीनि यानि धामानि
स्वर्णनिर्मितानि अन्तःप्रत्युप्तरत्नानि च नगरवासिनां गृहाणि,
महार्घाणि महापूजायुक्तानि मणिस्वर्णरूपाणि भगवन्मन्दि-
राणि च तैश्चित्रा भोगमोक्षप्रदत्वेनाश्चर्यभूता नानारूपा च ।
’मूल्ये पूजाविधौ चार्घः' इत्यमरः । 'धाम जन्मप्रभास्थानप्र-
भावसुखसद्मसु' इति यादवः । ' चित्रं नपुंसकं पुण्ड्रे स्यादा-
लेख्येऽप्यथ त्रिषु । आश्चर्ये कर्बुराभिख्यवर्णयुक्तेऽप्यथो
पुमान् ॥ ' इति केशवः । अत एव विश्वंभरां भूमिं विभूषयन्ती
अलंकुर्वती काञ्ची केन ब्रह्मणा सृष्टिवृद्धयर्थं नित्यमश्चिता पूजि-
तेति काञ्ची । तदुक्तं शिवपुराणसंग्रहे-- 'अपूजयच्च तत्क्षेत्रमन्त-
र्वेदीति तच्छ्रुतम् । निष्प्रत्यूहा ततः सृष्टिस्तेन प्रावर्तत
द्विजाः ॥ केन स्वयंभुवा तेन सा पुरी नित्यमञ्चिता । ततः
काञ्चीति विख्याता चतुर्वर्गफलप्रदा ॥' इति । गजाद्रिशिखरे
’दिङ्नागैरर्चितस्तत्र पुरा विष्णुः सनातनः । ततो हस्तिगि-
रिर्नाम ख्यातिरासीन्महागिरेः ॥' इति पुराणप्रसिद्धाभिधान-
श्रीहस्तिगिरिशृङ्गे भाता भासमानेन भक्तचिन्तारत्नेन भक्तानां
चिन्तामणिवद्दर्शनादेवाभिमतसकलार्थप्रदेन तव शुभेन विप्र-
हेण सुन्दरेण मङ्गलेन प्रशस्तेन च वपुषा । ’मञ्जुप्रशस्तवो-
श्वापि मङ्गलेन समन्विते । शुभशब्दोऽपि नानार्थः प्रशस्त