This page has been fully proofread once and needs a second look.

१५
 
हे विबुधनाथ देवराज ., महार्घाणां महामूल्यानां मणिका-

ञ्च
नानामुत्तमरत्नानां शुद्धसुवर्णस्य च संबन्धीनि यानि धामानि

स्वर्णनिर्मितानि अन्तः प्रत्युप्तरत्नानि च नगरवासिनां गृहाणि,

महार्घाणि महापूजायुक्तानि मणिस्वर्णरूपाणि भगवन्मन्दि-

राणि च तैश्चित्रा भोगमोक्षप्रदत्वेनाश्चर्यभूता नानारूपा च ।
 

मूल्ये पूजाविधौ चार्घः' इत्यमरः । 'धाम जन्मप्रभास्थानप्र-

भावसुखसद्मसु' इति यादवः । ' चित्रं नपुंसकं पुण्ड्रे स्यादा-

लेख्येऽप्यथ त्रिषु । आश्चर्ये कर्बुराभिख्यवर्णयुक्तेऽप्यथो

पुमान् ॥ ' इति केशवः । अत एव विश्वंभरां भूमिं विभूषयन्ती

अलंकुर्वती काञ्ची केन ब्रह्मणा सृष्टिवृद्धयर्थं नित्यमश्चिता पूजि-

तेति काञ्ची । तदुक्तं शिवपुराण संग्रहे-- 'अपूजयश्च्च तत्क्षेत्रमन्त-

र्वे
दीति तच्छ्रुतम् । निष्प्रत्यूहा ततः सृष्टिस्तेन प्रावर्तत

द्विजाः ॥ केन स्वयंभुवा तेन सा पुरी नित्यमश्ञ्चिता । ततः

काङ्क्षीञ्चीति विख्याता चतुर्वर्गफलप्रदा ॥' इति । गजाद्रिशिखरे

दिङ्नागैरर्चितस्तत्र पुरा विष्णुः सनातनः । ततो हस्तिगि-

रिर्नाम ख्यातिरासीन्महागिरेः ॥' इति पुराणप्रसिद्धाभिधान-

श्रीहस्तिगिरिशृङ्गे भाता भासमानेन भक्तचिन्तारत्नेन भक्तानां

चिन्तामणिवद्दर्शनादेवाभिमतसकलार्थप्रदेन तव शुभेन विप्र-

हेण सुन्दरेण मङ्गलेन प्रशस्तेन च वपुषा । मञ्जुप्रशस्तयो-
या
वो-
श्वा
पि मङ्गलेन समन्विते । शुभशब्दोऽपि नानार्थः प्रशस्त
 
6