This page has been fully proofread once and needs a second look.

१४
 
ऽपि शी भूयो भूयोऽपि वर्धते नित्यम् । विरम प्रसीद

सुन्दरि यौवनमनिवर्ति यातं तु ॥ ' इति तदुदाहरणीकृतम् ।

काव्यप्रकाशिकाकारेण तु -- अतिरेको विशेषः, विशिष्टोऽति-

रेको व्यतिरेक इत्यवयवव्युत्पत्तिमाश्रित्य अधिकव्यतिरेक

एवालंकारः न्यूनत्र्व्यतिरेकस्य नास्त्युदाहरणम् क्षीणः क्षीणो-

sपि - ' इति श्लोके चन्द्राद्यौवनस्यास्थायित्वगुणे आधिक्यं
विवाश्च

विवक्षि
तमिति सोऽप्यधिकव्यतिरेकस्यैवोदाहरणमित्युक्तम् ।

अस्माभिस्तु कुवलयानन्दे न्यूनाधिकसमानरूपास्त्रविधो व्यति-

रेकः सोदाहरणं लिखितः । एवं प्रतिभारहितस्य स्तोत्रनि-

र्माणनिवृत्तिसाधकशङ्कास्पदस्य तत्प्रवृत्तावेव साधकत्वसमर्थने

श्लोकस्य पर्यवसानादुक्तालंकारत्रयपरिष्कृतार्थशक्तिमूलो व्या-

घातविशेषालंकारध्वनिः । 'सौकर्येण निबद्धा या क्रिया

कार्यविरोधिनी । सा तु द्वितीया व्याघातालंकृतिः कथ्यते

बुधैः ॥ लुब्धो न विसृजत्यर्थं नरो दारिद्र्यशङ्कया । दातापि

विसृजत्यर्थं तयैव ननु शङ्कया ॥ ' इति तल्लक्षणोदाहरणे ॥

एवं स्तोत्रारम्भ उपपादितः । अथ स्तोत्रमारभ्यते-
-
 
काञ्ची महार्घमणिकाञ्चनधामचित्रा
 
6
 
b
 

विश्वंभरां विबुधनाथ विभूषयन्ती ।

भाला गजाद्रिशिखरे तव भक्तचिन्ता-

रत्नेन राजतितरां शुभविग्रहेण ॥ ६ ॥