This page has been fully proofread once and needs a second look.

१३
 

 
एति प्राप्नोति । महाकवयस्तु भगवन्तं तुष्टुटूषवस्तदवयववर्ण-

नोचितविविधचित्रार्थसमूहालम्बनज्ञानवन्तो वश्यवाचः सन्तः

क्षणेन भगवत्स्तोत्ररूपं प्रबन्धं सृजन्तीति न तैश्चिराचिन्तन-

भाग्यं लभ्यत इति भावः । उत्तरवाक्ये सत्यपि यत्पढ़े
दे
पूर्ववाक्ये विशेष्यनिर्देशकपदान्तरवति न तन्निर्देशकं तत्पदं

प्रयोक्तव्यम् ; पूर्ववाक्यार्थावगतिसमये यत्पदश्रवणाभावेन

तत्प्रतिनिर्देशकाकाङ्क्षाविरहात्,
वृत्रस्य त्वावसथादीक्ष-

मागाणा विश्वे देवा अजहुर्ये सखायः । मरुद्भिरिन्द्र सख्यं ते

अस्तु अथेमा विश्वाः पृतना जयासि ॥' 'वीरप्रसूर्जगति

भार्गव रेणुकैव या त्वां त्रिलोकातकतिलकं सुतमभ्यसूत । शक्रे-

भकुम्भतटखण्डनचण्डधारो येनैष मे न गणितो युधि चन्द्र-

हासः ॥' इत्यादिलौकिकवैदिकप्रयोगाणां तथैव दर्शनात् ।

अतोऽत्र पूर्ववाक्ये तत्पदाप्रयोगः । अत्र पूर्ववाक्यार्थे उत्तर-

वाक्यार्थस्य हेतुत्वाद्वाक्यार्थहेतुकं काव्यलिङ्गमलंकारः, तेभ्यो

मादृशो धन्य इति महाकावकविभ्यः स्वस्याधिक्यवचनात्, कवि-

तातिमान्द्यादिति तेभ्यो निकर्षवचनाञ्च्चाधिकन्यूनरूपौ व्यति-

रेकालंकारौ चेत्येतेषां संकरः । इहैकप्रतियोगिकन्यूनाधिक

व्यतिरेकयोर्विरुद्धयोरपि ' जीयादम्बुधितनया--' इति श्लोके
त्रि

वि
फलत्वसफलत्वयोरिव मुखभेदेन प्रवृत्तेः समावेशोपपत्तिः ।

अलंकारसर्वस्वकृता न्यूनव्यतिरेकमप्यङ्गीकृत्य क्षीणः क्षीणो-
,