This page has been fully proofread once and needs a second look.

याह्लादकारित्वाद्भगवन्महिमतत्त्वपरिज्ञानानपेक्षणेऽपि काव्य-

सरणौ तन्मात्रापेक्षणादित्याशङ्कय स्वस्य तथाभूतप्रतिभारा-

हित्यरूपं कवितामान्द्यं स्वाभिलषितफलसाधने भगवद्विग्रहव-

र्णने साधकमेव न तु बाधकमित्येतदुपपादयति —

 
मन्ये सृजन्त्वभिनुतिं कविपुंगवास्ते

तेभ्यो रमारमण मादृश एव धन्यः ।

त्वद्वर्णने धृतरसः कवितातिमान्द्या
व्

द्
यस्तत्तदङ्गचिरचिन्तन भाग्यमेति ॥ ५॥
 
१२
 

 
हे रमारमण, कविपुंगवाः कविश्रेष्ठा महाकवयः ।

श्रेष्ठोक्षाणौ तु पुंगवौ' इति वैजयन्ती । तवाभिनुतिं स्तोत्रं

सृजन्तु शब्दतोऽर्थतश्च महाप्रबन्धरूपं स्तोत्रं निर्मिमताम् ।

प्रैषातिसर्गप्राप्तकालेषु कृत्याञ्श्च' इत्यतिसर्गे लोट् । अति-

सर्गः कामचाराभ्यनुज्ञानम् । तेभ्यो महाकविभ्यो मादृशो

मन्द एव धन्यः सुकृती स्वाभिलषितफलरूपं धनं लब्धा वा

इति मन्ये । मन्ये प्रीतिविशिष्टा सा मत्तो लक्ष्मण शारिका'

इत्यत्रेवेह मन्ये - शब्दः संभावनामात्रपरः, न तु प्रौढोक्तिक-

ल्पितार्थविषयसंभावनारूपोत्प्रेक्षापरः, इह तद्‌द्भावात् । यो '

मादृशः त्वद्वर्णने धृतरसो धृतादरः कविताया अतिमान्द्या-

त्वरितं स्तोत्रं निर्मातुमशक्नुवन् तत्तदङ्गचिरचिन्तनभाग्यम्
 
.
 
6
 
!